________________
कल्प
११६
मा भूद्विवाहप्रत्यूहं नेदीयस्तद्दिनं वदः । गाधर्व इव विवाहो, भूयाद्भवदनुज्ञया ॥ ११ ॥ विमृश्य क्रोष्टु किवाख्यद्य द्यैवं तद्यदूद्वह । श्रावणस्य सितपष्ठयां, कार्यमेतत् प्रयोजनम् ।। १२ ।।
ततः समुद्रविजयाने कनृपयुतः शिवादेव्यादिस्त्रीजनगीयमानो नेमि कुमारो रथस्थो धृतछत्रो विवाहाय व्रजन्नग्रतो वीक्ष्य सारथिं प्रति कस्येदं कृतमङ्गलभरं धवलगृहमिति पृष्टवान्, ततः सोङ्गुल्याऽदर्शयत् उग्रसेननृपस्य तव श्वसुरस्यायं प्रासादः स्मितास्ये च राजीमतीसरच्यौ मृगलोचनचन्द्राननाख्ये त्वां पश्यतः । तत्र मृगलोचना नेमिं वीक्ष्याह हे चन्द्रानने?
"इक्कुच्चिय त्यमई, वणियावग्गंमि वण्णणिज्जगुणा । जीसे नेमि करिस्सइ, लायन्ननिही करगहणं ॥ १ ॥ चन्द्राननाऽपि मृगलोचनामाह
“रायमईए रूवं विहिनिम्मविअं च रंभरुवहरं । न करिज्जइ दइअमिअसिं, हविज्ज ता नूणमजसभरं ॥ १ ॥
इतश्च सूर्यरवं श्रुत्वा राजीमती सखीमध्ये प्राप्ता, हे सख्यौ भवतीभ्यामेव यथा साडम्बरमागच्छन् hist वरो वीक्ष्यते तथाहमपि द्रष्टुं न लभेयमिति बलात्तदन्तरे स्थित्वा नेमिं वीक्ष्य साञ्चर्यं स्वगतं -
'किं पाताल कुमारः ! किंवा कन्दर्पः ! किं वा सुरेन्द्रः ! किं वा मूर्तिमान् पुण्यभरः ! |
किं तस्स करेमि अहं, अप्पाणं वि हु निउँछणं विहिणो । “निरुवमसोहग्गनिही, एस पई जेण मह विहिओ" ॥ १ ॥ इति राजीमत्यभिप्रायं ज्ञात्वा सहासं संख्यावाहतुः । भो राजिमति ! वरे गौरत्वमेवादौ गुणो
प्रदीपिका
११६