________________
निरमार्जयत् । स्वर्णविष्टरे निवेश्य च सत्यभामा नेमिमित्युचे । “भो देवर ! ज्ञातं गृहनिर्वाहकातरस्त्वं स्त्रीपरिग्रहं न करोषि, परं तदयुक्तं यतो भ्राता ते समर्थः, यथास्माकं द्वात्रिंशत्सहस्रसङ्ख्याकानां | निर्वाहं कुरुते, तथा किमेकस्या भातृजायाया निर्वाहं कर्तुमक्षमः । तथाऋषभमुख्यजिनाः करपीडनं विदघिरे दधिरे च महीशतां । बुभुजीरे विषयाश्च बहून्सुतान्, सुपुविरे शिवमप्यथ लेमिरे २ त्वमसि किं नु नवोध शिवङ्गमी, भृशमरीष्टकुमारगरिष्टधीः। विमृश देव गृहाण गृहस्थतां, कुरु सुवन्धुमनस्सु च सुस्थतां ३ अथ जगाद च जाम्बवती जवात,शृणु पुराहरिवंशविभूषण?।स मुनिसुव्रततीर्थपतिगृही, शिवमगादिह,जातसुतोऽपि हि ।।।
वण्ढमात्रइवैकाङ्गो विना पत्नीपरिग्रहम्, कालं कियन्तं नेताऽसि, विमृश स्वयमप्यहो॥५॥ किमशो नीरसो वाऽसि, क्लीयो वाऽसीति शंस नः । स्वीभोगेन विनाऽसि त्वं, महाकान्तारपुष्पवद् ॥ ६ ॥ एवं ताभिः कृष्णेन अन्यैर्यदुभिः विवाहार्थमुपरुडो नेमिरचिन्तयदिति"न केवलं स्वयममी, पतन्ति भवसागरे । आवध्य स्नेहशिलया, पातयन्ति परानपि ॥७॥ वाङ्मात्रेणानुमन्तव्यममीषामधुना वचः । आत्मनीनं विधातव्यमवश्यं समये मया ॥८॥ ततः कृष्णेन मार्गितोग्रसेन सुताराजिमती, कोष्ठुकर्लग्नं प्रपच्छे च प्रोवाच क्रोष्टुकैश्चैवं शुभारम्भास्तपात्यये । न खल्वन्येऽपि युज्यन्ते, विवाहस्य च का कया ॥९॥ समुद्रस्तं वभाषेऽथ, कालक्षेपोत्र नाईति । नेमिः कथंचित कृष्णेन, विवाहाय प्रवर्तितः॥१०॥
P