________________
।
कृष्णो मद्राज्यं अयं लीलया लास्यति इति विषण्णो हृयचिन्तयत्क्लिश्यन्ते केवलं स्थूलाः, सुधीस्तु फलमन्नते। ममन्थ शङ्करः सिन्धुम्, रत्नान्यादुर्दिवौकसः॥१॥
ततो रामेण सहालोचयत, किं करिष्यावो राज्यलिप्सुस्तु नेमिबलवान्। ततो व्योमगीरभू "हे हरे ! श्रीनमिजिनेनोक्तं-“यदसौ नेमिरपरिणीत एव प्रजिष्यताति न भेतव्य" । ततश्च हरिरित्याकर्ण्य निश्चितुं वसन्ते जलक्रीडार्थ नेमिना सह रैवताद्रिसरसि सान्तःपुरः प्राप्तः, तत्र सरसि नेमिकृष्णोऽवेशयत् । तं चासिञ्चत स्वर्गशृङ्गजलैः, तथा रुक्मिण्यादिगोपीगणमपि संज्ञितवान् यदसौ प्रभुनिःशङ्कः क्रीडया विवाहाभिमुखीकार्यः । ततस्ताः सर्वा गोयः स्वर्णशृङ्गाजलैः प्रभोराकुलस्वं चक्रुः । तावघ्योम्नि गिरीत्यभूत-- मुग्धाःस्थाप्रमदा यतोऽमरगिरौ,गीर्वाणनाथैश्चतुःषघ्यायोजनमानवक्त्र कुहरैः कुम्भैः सहस्राधिका बाल्येऽपि स्नपितो य एष भगवान्नाभून्मनागाकुलः, कर्तु तस्य सुयलतोऽपि किमहो युष्माभिरी
शिष्यते ॥ १॥ ततो नेमि काश्चित् सलिलैः सिचन्ति, काश्चित् लीलाब्जेनोरसि नन्ति, इत्यादि सविस्तरां जलकेलिं विधाय स्त्रीसखः नेमिना सह हरिः सरोवरान्निरगात् । तमो रुक्मिगी स्ववाससा स्वाम्या