________________
से तहेव, नवरं पासाभिलावेणं भाणियव्वं, जाव तं होउ णं कुमारे पासेनामेणं ॥ १५१ ॥ व्याख्या - सेसं तहेवेत्यादितः पासेनामेणमित्यन्तम् । तत्रास्मिन गर्भस्थे सति शयनस्था माता ध्वान्ते सर्पन्त कृष्णसर्प ददर्शेति पार्श्व इति नाम । स चेन्द्रादिष्टधात्रीभिर्लाल्यमानो नवहस्तोछ्रयः क्रमाद्योवनम् प्राप । ततः कुशलस्थलेश प्रसेनजित् पुत्रीं प्रभावतीनाम्नीं कन्यामागृह्य पित्रोद्वाहितः । अन्येद्युर्गवास्थः स्वामी पुरीं पश्यन् बहिर्गच्छतः पौरजनान् पुष्पाहारभृतो दृष्ट्वा कश्चित् पृष्टवान् । स प्राह-रोरद्विजसुतः कृपया लोकैर्जीवितः कमडाख्योऽन्येयुरलङ्कृतेश्वरान् वीक्ष्य प्रागू जन्मतपःफलमिति तपस्वी जातः पश्चग्न्यादितपस्तपन, कन्दमूलादिभोजी सोऽयं पुर्या बहिरागतः । तमर्चितुं जना यान्ति, स्वाम्यपि सपरिच्छदस्तं द्रष्टुमगात् । दृष्ट्वा ज्वलन्तं सर्प कृपया स्वाम्याह- 'अहो तपस्विन् ! अज्ञानतया त्वं धर्मतस्वं न वेत्सि, किं दयां विना वृथा तपस्यसि, यतः—कुपानदीमहातीरे, सर्वे धर्मास्तृणाङ्कुराः । तस्यां शोषमुपेतायां, कियन्नन्दति ते पुनः ॥१॥
इत्याकor hidisa 'राजपुत्रा हि गजाश्वादिक्रीडां कर्तु जानन्ति, धर्म तु तपोधना एव जान'न्ति । ततः स्वामिन्नतऽग्निकुण्डात् काष्ठनाकृष्य कुठारेण द्वैधीकृत्य ज्वलन्नहिर्निष्काशितः स च प्रभुनियुक्त नरमुखान्नमस्कारान् प्रत्याख्यानं चाकर्ण्य तत्क्षणादेव विपद्य च धरणेन्द्रोऽभूत् । 'अहो ज्ञानवान स्वामीति जनैः स्तुतः स्वगृहं ययौ, कमठस्तु मृत्वा मेघकुमारेषु मेघमाली सरोऽभूत् ॥ १५३ ॥
४८