SearchBrowseAboutContactDonate
Page Preview
Page 240
Loading...
Download File
Download File
Page Text
________________ कल्प | चोत्तरसूत्रम, गतः स भावोद्योतो ज्ञानरूपो ज्ञानमयो भगवान्, अतो द्रव्योद्योतं प्रदीपरूपं करिष्यामः लामदीपिका इति हेतोस्तैः दीपाः प्रवर्तिताः, ततः प्रभृति दीपो सवः संवृत्तः। प्रतिपदि च श्रीगौतमस्य केवलोत्सवः सुरैश्चक्रे, अतस्तत्राप्यानन्दः । नन्दिवर्द्धननृपः प्रभोर्निर्वाणं श्रुत्वा शोकात्तः सन् सुदर्शनया स्वस्रा शाकच्छिदे द्वितीयायां स्वगृहे भोजितः, ततो भ्रातृद्वितीया पर्वरूढिः ॥ १२७॥ जं रयाणं च णं समणे भगवं महावीरे जाव सव्वदुक्खप्पहीणे, तं रयणि चणं खुद्दाए भासरासी नाम महागहे दो वाससहस्सट्टिई समणस्स भगवओ महावीरस्स जम्मनक्खत्तं संकेते ॥१२८॥ व्याख्या-जं रयणिमित्यादितः..........संकंते इत्यन्तम् । तत्र क्षुद्रात्मा क्रुरस्वभावः भस्मराशिनामा त्रिंशत्तमो महाग्रहः. ग्रहनामानि चैवं____ अङ्गारकः १ विकालकः २ लोहिताक्षः ३ शनैश्चरः ४ आधुनिकः ५ प्राधुनिकः ६ कणः ७ कणकः ८ कणकणकः ९कणवितानकः १० कणसंतानकः११ सोमः १२ सहितः१३ अश्वसेनः १४ कार्योफ्गः १५ कर्बुरकः१६ अजकरकः १७ दुन्दुभकः १८ शङ्खः १९ शङ्खनाभः २० सङ्कवर्णाभः २१ कंसः २२ कंसनाभ:२३ कंसवर्णाभः २४ नीलः २५ नीलावभासः २६ रूपी २७ रूपावभासः २८ भस्मः २९ भस्मराशिः ३० तिल: ३१ तिलपुष्पचूर्णः ३२ दकः ३३ दकवर्णः३४ कायः३५ वन्ध्यः ३६ इन्द्राग्निः३७ धूमकेतुः ३८ हरिः ३९पिङ्गलः४० बुधः ४१ शुक्रः४२ बृहस्पतिः ४३ राहुः ४४ अगस्तिः ४५ माणवकः ४६ कामस्पर्शः ४७
SR No.600393
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorMafatlal Zaverchand Gandhi
PublisherMukti Vimal Jain Granthmala
Publication Year1935
Total Pages376
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy