SearchBrowseAboutContactDonate
Page Preview
Page 239
Loading...
Download File
Download File
Page Text
________________ वीतरागा निस्नेहाः स्युः, धिग् मां येन निर्वाणसमये श्रुतोपयोगोऽपि न ददे, धिग् ममैकपाक्षिक स्नेहम्, अलं स्नेहेन, एकोऽस्मि, नास्ति मे कोऽपि, एवं साम्यं दधतस्तस्य केवलमुत्पेदे। प्रातरिन्द्राद्यैर्महिमा कृतः। | सर्वेषां हर्षोऽजनि ॥१२६॥ अहङ्कारोऽपि बोधाय, रागोऽपि गुरुभक्तये। विषदो केवलायाभुच्चित्रं श्रीगौतमप्रभोः।१।॥१२६॥ ___जं रयणिं च णं समणे भगवं महावीरे कालगए जाव सव्वक्दुखप्पहीणे तं स्यणिं च णं । नवमलई नवलेच्छइ कासीकोसलगा अट्ठारस वि गणरायाणो अमावासाए पाराभायं पोसहोववासं पट्टविंसु, गए से भावुज्जोए दबुज्जोयं करिस्सामो ॥ १२७ ॥ __व्याख्या-जं रयणिमित्यादितः..........करिस्सामो इत्यन्तम्। तत्र नवमल्लकिजातीयाः-काशीदेशनृपाः, नव लेच्छकिजातीयाः-कोशलदेशनृपाः, यो चेटकनृपस्य भगवत्मातुलस्य सामन्ताः श्रूयन्ते ते कार्यवशात् गणं मेलापकं कुर्वन्तीति गणराजानोऽष्टादशते तस्यामावास्यायां पारं पर्यन्तं भवस्याऽऽभोगयति-पश्यति यः सः पाराभोगः-भवाब्धिपारप्रापकः तं । यद्वा पारं-पर्यन्तं यावदाभोगो-विस्तारो यस्य स पाराभोगोऽष्टमाहरिकः प्रभातं यावत् सम्पूर्णस्तं तादृशम् पौषधोपवासम् पट्टविंसु त्ति प्रस्थापितवन्तः-कृतवन्तः । क्वचिद्वाराभोए सि पाठस्तत्र द्वारमाभोग्यते-अवलोक्यते यैस्ते द्वाराभोगा:प्रदीपास्तान् कृतवन्तः । आहारत्यागपौषधरूपमुपवासं चाकावुरिति वृद्धाः । एतदर्थानुपात्येव
SR No.600393
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorMafatlal Zaverchand Gandhi
PublisherMukti Vimal Jain Granthmala
Publication Year1935
Total Pages376
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy