________________
प्रदीपिका I
जं रयणिं च णं समणे भगवं महावीरे कालगए जाव सव्वदुक्खप्पहीणे, तं स्याणं च णं जिहस्स गोयमस्स इंदभूइस्स अणगारस्स अंतेवासिस्स नायए पिज्जवंधणे वुच्छिन्ने अणंते अणुत्तरे जाव केवलवरनाणदंसणे समुप्पन्ने ॥ १२६ ॥
व्याख्या-जंरयणिमित्यादितः.......समुप्पन्ने इत्यन्तम्। तत्र ज्येष्टस्यान्तेवासिनो ज्ञानदर्शनसमुत्पन्ने इति योज्यम् । गोत्रेण गौतमस्य नाम्ना इन्द्रभूतेः ज्ञातजे-श्रीवीरे प्रेमबन्धने व्युच्छिन्ने-त्रुटिते सति केवलमुत्पन्नम् । तद्वयतिकरस्वेवम-स्वनिर्वाणसमये देवशर्मणः प्रतिबोधाय क्वापि ग्रामे स्वामिना प्रेषितः । तं प्रतिबोध्याऽऽगच्छन् श्रीवीरनिर्वाणं श्रुत्वा वजाहत इव शून्यः क्षणं तस्थौ, वक्ति च
पसरइ मिच्छत्ततम, गज्जति कुतित्थकोसिआ अज्ज । दुभिक्खडमरवेराई, निसिअरा हुंति सप्पसरा ॥१॥ अथमिए जह सूरे,मउलेइ तुमम्मि संघकमलवणं । उल्लसइ कुमयतारा-निअरो वि.हु अज्ज जिणवीर! ॥२॥ तमगसिअससिं च नहं, विज्झायपईवयं व निसि भवणं । भरहमिणं गयसोहं, जायमणाहं च पहु अञ्ज ॥३॥
तथ हा हा वीर! किं कृतं, यदीदृशेऽवसरेऽहं दूरीकृतः। किं केवलभागममार्गयिष्यम् ? किं बालकवत्तवाञ्चलेऽलगिष्यम् ? किंवा त्वयि कृत्रिममना अभवम ? किं मुक्तौ सङ्कीर्णम् ? किं तवाणक्खकारकोऽभवम् ? किं तव भारोऽभवम् ? हे वीर ! कथं विस्मारितोऽहम् ? कस्याग्रे सन्देहान् प्रक्ष्ये ? हा वीर! विरहं कुर्वता महान् विराम कृतः, कस्याग्रे वच्मि वीर ! वीर ! इति वी वी लग्ना । हूं! हं! ज्ञातं,