________________
प्रदीपिका
|१००-अ
स एष विगुणो विभुर्न बध्यते संसरतिवान मुच्यते मोचयति वा एष बाह्वमभ्यन्तरं वा वेद" इत्यादि १००आ
[वेदपदेनैवात्रोत्तरस्]-तथा “नह वै सशरीरस्य प्रियाप्रिययोरप्रतिहतिरस्ति, अशरीरं वा वसन्तम् प्रियाप्रिये न स्पृशतः" इत्यादि, इति सिद्धः कर्मबन्धस्तन्मोक्षश्च।
॥षष्ठो मण्डितः॥ | किंमन्नि आत्थि देवा उदाहु नस्थित्तिसंसओतुज्झ ।वेयपयाणय अत्यं,नयाणसी तोसिमोअत्थो॥१॥
[विपरीतार्थकरणेन देवाभावप्रतीतिकं वेदपदं इदम् ]
को जानाति मायोपमान् गीर्वाणान् इन्द्र-यम-वरूण-कुबेरादीनित्यादीनि" तन्निषेधकानि १ अर्थात् स एष जीवः सत्व-रजम्-तमोगुणरहितः सर्वव्यापकः पुण्यपापाभ्यां न वध्यते, संसारे च न परिभ्रमति, बन्धाभावात न मुच्यते, अन्यं च नैव मोचयति-अनेन वाक्येन बन्धमोक्षाभावो ज्ञायते । परंतु अस्य वाक्यस्य यथा त्वया अर्थः कृतः, तथा नास्ति तस्यार्थः । तस्य वाक्यस्य सम्यगर्थ शृणु
"छद्मस्थतागुणरहितः केवलज्ञानप्रकाशेन सर्वव्यापकः आत्मा पुण्य-पापाभ्यां न बध्यते, बन्धाभावाच्च न मुच्यते, | संसारे च न परिभ्रमति" अनेन अथैन सिद्धजीवस्य बन्धो न भवति छद्मस्थस्य जीवस्य तु पुण्य-पापबन्धो भवत्येव, । NI २ परंतु अनया मया कथितया रीत्या त्वं तेषां वेदपदानामर्थ विचारय-"मायोपमान्" अनेन पदेन-देवानामपि
अनित्यत्वं बोधयति, देवा अपि आयुःक्षयेण मृत्वा जन्मान्तरं गच्छन्ति, तेऽपि न शाश्वताः, अतःमायारूपाः कथ्यन्ते, न तु देवानां सर्वथा अभावः । अतः तव संदेहो न युक्तः। तथा अस्यां-पर्षदि आगता देवास्त्वया, माया अन्यैश्च सर्वैर्दश्यन्ते"।