________________
-
मन का
अभेद्यं किमु वज्रस्य,किमसाध्यं महात्मनाम् ।क्षुधितस्य न किं खाद्यं, किं न वाच्यं खलस्य च॥४१॥ कल्पद्रुणामदेयं किं, निर्विण्णानां किमत्यजम्। गच्छामि तर्हि तस्यान्ते,पश्याम्येतत्पराक्रमम् ॥४२॥ लक्षणे मम दक्षत्वं, साहित्ये संहिता मतिः। तकें कर्कशताऽत्यर्थ, क्व शास्त्रे नास्ति मे श्रमः॥४३॥ इत्युदीर्य त्वरापूर्णो, ययौ वादस्य लिप्सया। पञ्चच्छात्रशतैः पठ्य-मानोऽसौ विरुदैरिति ॥४४॥ |
बिरुदानि च-सरस्तीकण्ठाभरण ! पादिविजयलक्ष्मीशरण ! विज्ञातोऽखिलपुराण ! वादिकदलीदलकृपाण ! निपुणश्रेणिशिरोमणे! कुमतान्धकारनभोमणे! ज्ञानरत्नरत्नाकर ! महाकवीश्वर ! शिष्यीकृत बृहस्पते!प्रणतानेकनरपते! वादिमुखभअन!जगजनरञ्जन! जितानेकवाद!भारतीलब्धप्रसाद! इत्यादीनि.। इअ वुत्तूणं पत्तो, दटुं तेलुकपरिवुडं वीरं। चउतीसाइसयनिहिं, ससकिओऽवढिओ पुरओ॥४५॥ वीरं निरीक्ष्य सोपान-स्थितोदध्यौस विस्मिताकिं ब्रह्मा? शङ्करः किं वा?,किं विष्णुब्रह्मवा किमु?४६ आदित्यमिव दुःप्रेक्ष्य, समुद्रमिव दुस्तरम्। बीजाक्षरमिवाऽचय॑म् , दृष्ट्वा वीरं महोदयम्॥४७॥ कथं मया महत्त्वं हा ? रक्षणायं पुरार्जितम् । प्रासादं कीलिकाहेतो-भक्तुं को नाम वाञ्छति । सूत्रार्थी पुरुषो हारं, कखोटयितुमीहते। कः कामकलशं शस्यं, स्फोटयेत् ठीकरीकृते ॥ १९॥