________________
कल्प
९६
काश्मीराः प्रणताः पलायनपरा जातास्तिलङ्गोद्भवा, विश्वे चापि स नास्ति यो हि कुरुते वादं मया साम्प्रतम् ॥ ३१ ॥ कृष्णसर्पस्य मण्डुक-चपेटां दातुमुद्यतः । मूषो रदैश्च मार्जार- दंष्ट्रापाताय सादरः ॥ ३२ ॥ वृषभः स्वर्गजं शृङ्गैः, प्रहर्त्तु काङ्क्षति द्रुतम् । द्विपः पर्वतपाताय, दन्ताभ्यां यतते रयात् ॥३३॥ शशकः केसरिस्कन्ध-केसरां क्रष्टुमहिते । मद्द्द्दष्टौ यदसौ सर्व-वित्त्वं ख्यापयते जने ३४ त्रिभिर्विशेषकम् समीराऽभिमुखस्थेन, दावाग्निज्वलितोऽमुना। कपिकच्छूलता देह-सौख्यायाऽऽलिङ्गिता ननु ॥३५॥ शेषशीर्षमणिं लातुं, हस्तः स्वीयः प्रसारितः । सर्वज्ञाऽऽटोपतोऽनेन, यदहं परिक्रोपितः ॥३६॥ युग्मम् तावद् गर्जति खद्योत -स्तावद् गर्जति चन्द्रमाः । उदिते च सहस्रांशौ, न खद्योतो न चन्द्रमाः । ३७| तावद्गजः प्रस्नुतदानगल्लः, करोत्यकालाम्बुदगर्जितानि
यावन्न सिंहस्य गुहास्थलीषु, लाङ्गूल विस्फोटखं शृणोति ॥ ३८ ॥
मम भग्यभराद्यद्वा, वाद्ययं समुपस्थितः । दुर्भिक्षे क्षुधितस्यान्न - लाभश्चिन्ताऽतिगो यथा ॥३९॥ यमस्य मालवो दूरे, किं स्यात् को वा वचस्विनाम् । अपोषितो रसो नूनं, किमजेयं च चक्रिणः ४०
प्रदीपिका
९६