________________
वैश्वानरः करस्पर्श, मृगेन्द्रः श्वापदस्वनम् । क्षत्रियाश्च रिपुक्षेत्रं, न सहन्ते कदाचन ॥ २० ॥
हवादीन्द्राः तूष्णीं संस्थापिताः समे । गेहे शूरतरः कोऽपि, सर्वज्ञो मत्पुरोभवेत् ॥ २१ ॥ शैला येनाऽग्निना दग्धाः, पुरः के तस्य पादपाः । उत्पाटिता गजा येन, का वायोतस्य पुम्भिका ॥ २२ ॥ अग्निभूतिरुवाचैवं, भ्रातः ! कस्तेऽत्र विक्रमः । कीटिकायां कथं पक्षी - राट् करोति पराक्रमम् ॥ २३ ॥ पद्मस्योत्पाटने हस्ती, कुठारः काशकर्त्तने । मृगस्य मारणे सिंहः, सद्भिः किं क्वापि शस्यते ॥ २४ ॥ गौतमो भ्रातरं प्राह, भो अद्याप्यवतिष्ठते । वाद्यसौ विहिते मुग-पाके कङ्कटुको यथा ॥२५॥ पीलयतस्तिलः कश्चिद्, दलतश्च यथा कणः । सूडयतस्तृणं किञ्चि- दगस्तेः पिबतः सरः ॥२६॥ मर्द्दयतस्तुषः कोऽपि, तद्वदेष ममाऽभवत् । तथापि सासहिर्नाहं, मुधा सर्वज्ञवादिनम् ॥ २७ ॥ एकस्मिन्नजिते ह्यस्मिन्, सर्वमप्यजितं भवेत् । एकदा हि सती लुप्त-शीला स्यादसती सदा२८ यतः - छिद्रे स्वल्पेऽपि पोतः किं, पथोधौ नैव मज्जति ? । न दुर्गों गृह्यते धीरै - दुर्गाशे पातितेऽपि किम् २९ - हंहो ! वादिगणा भोट- कर्णाटादिसमुद्भवाः। कस्माददृश्यतां प्राप्ता, यूयं मम पुरः सदा ॥३०॥ लाटा दूरगताः प्रवादिनिवहा मौनं श्रितामालवा, मूकाभा मगधा गता गतमदा गर्जन्ति नो गौर्जराः
यतः