SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ प्रदीपिका रस्स लोगस्स परियायं जाणइ पासइ, सव्वलोए सव्वजीवाणं आगई गई ठिई चवणं उववायं तकं मणो माणसियं भुत्तं कडं पडिसेवियं आवीकम्मं रहोकम्मं । अरहा अरहस्स भागी तं तं कालं मणवयणकायजोगे वट्टमाणाणंसव्वजीवाणं सव्वभावे जाणमाणे पासमाणे विहरइ ॥१२०॥ व्याख्या-तएणमित्यादितो...........विहरईत्यन्तम् । तत्र अर्हन्-अशोकादिमहापूजाहत्वाद्, न रहंप्रच्छन्नं वा यस्य सोऽरहा । अरिहेत्यादि क्वचित् तत्र अरीन-रागादीन् हन्तीत्यादि, पूर्वमिव जातः सम्पन्न:, जिनो-रागादिजेता, केवलानि-सम्पूर्णानि शुद्धानि अनन्तानि वा ज्ञानादीनि विद्यन्ते यस्य स केवली।सर्वज्ञः-एकस्मिन् समये विशेषावबोधवान, सर्वदर्शी-द्वितीये समये सामान्यावबोधवान, सदेव मनुजासुरस्य लोकस्य पर्यायं जातावेकवचनम्' इतिपर्यायानुत्ताव्ययरूपान् जानाति ज्ञानेन पश्यति दर्शनेन न च 'पर्यायानित्येवोक्ते द्रव्यं न जानाति' इति शङ्कोत्पत्तिः, उत्पादव्यययोनिराधारयोरनुपपत्तेस्तयोजाने तदविष्वग्भावेन वर्तमानमन्वयिद्रव्यमपि ज्ञातमेव । अत एवाह-सर्वलोके सर्वजीवानामागतियतः स्थानादागच्छन्ति,गति-यन्त्र मृत्वोत्पद्यन्ते,स्थिति-कायभवस्थितिभेदेन द्विविधामपि, च्यवनं-स्वर्गमनुष्यतिर्यरष्वतरणं,उपपाद-देवनारकारणां जन्म,तेषां जीवानामिदं तत्क-तदीयं, मन:-चित्तं,मानसिक| चित्तगतं, चिन्तारूपापन्नपुद्गलजातं, भुक्तमशनपुष्षादि, कृतं चौर्यादि, प्रतिसेवितं मैथुनादि, आवि कर्म-प्रकटकृत, रहाकर्म-प्रच्छन्नकृतं जानाति पश्यति इत्यत्रापि सम्बध्यते। अरहा प्राग्वत् । अरहस्य
SR No.600393
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorMafatlal Zaverchand Gandhi
PublisherMukti Vimal Jain Granthmala
Publication Year1935
Total Pages376
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy