________________
कल्प
ला देशादिचत्रणादिना, वीर्यग-विशिष्टोत्साहेन, आर्जवेन-मायानिग्रहेण,मार्दवेन-माननिग्रहेण,लाघवेन- दीपिका | क्रियासु-दक्षत्वेन,यदा लाघवं द्रव्यतोऽल्पोपधिकत्वं भावतो गारवत्रयत्यागरतेन,क्षान्त्या-क्रोधनिग्रहेण 1 मुक्त्या-निर्लोभतया,गुप्त्या मनोगुप्त्यादिकया,तुष्टया-मनःप्रसत्या,सत्यं सुनृत,संयमः-प्राणिदया,तपो-N द्वादशविधं, तेषां सुष्टु-विधिवचरितमाचरणं, उपचयनमुपचितं सहोपचितेन-उपचयेन वर्त्तते यत् तत् । सोपचितं, सत्यसंयमतपःसुचरितेन सोपचितं-स्फीतं फलं मुक्तिलक्षणं स चासो निर्वाणमार्गश्च-रत्नत्रयरुपस्तेनात्मानं भावयतो-वासयतः अनेनात्मज्ञानमेव मोक्षस्य प्रधानसाधनमित्युक्तम् । 'दुवालससंवच्छराई' ति द्वादशसंवत्सरव्यतिक्रमणं त्वेवं-एक षण्मासक्षपणं, एकं पञ्चदिनोनषण्मासक्षपणनभिग्रह| रूप, नव चतुर्मासक्षपणानि, द्वे त्रिमासक्षपणे, हे च साईद्विमासक्षपणे, षड् द्विमासक्षपणानि, हे साईमा|| सक्षपणे दादशमासक्षपगानि, द्विसप्ततिरर्धमासक्षपणानि, एकोनत्रिंशदधिकशतद्वयसङ्ख्यामिताः षष्ठाः। Nil भदं च महाभदं, पडिमं तत्तोय सव्वओ भदं। दो चत्तारि दसेव य, दिवसे ठासीअअणुबद्धं ॥१॥
तत्र भद्रा-प्रत्येकं चतुर्दिक्षु चतुःप्रहरकायोत्सर्गात् षष्ठेन समाप्यते १। महाभद्रा-चतुर्दिक्षु अष्टप्रहरकायोत्सर्गादशमेन २॥ सर्वतोभद्रा-दशदिश्वष्टप्रहरकायोत्सर्गात् द्वाविंशतिभक्तेनोोऽघोदिशोः कायोत्सर्गस्तदिग्गतद्रव्यचिन्तनेन ज्ञेयः। एतत् प्रतिमात्रयं संलग्नमेव चक्र दस दो य किर महप्पा, ठाइ मुणी एगराइयं पडिमं । अट्टमभत्तेण जई, इक्विकं चरमराईयं ॥ २॥