________________
जातबलो निर्वाहकत्वात्, सिंह इव दुईर्षः-परीषहमृगैरजेयः, मेरुरिवोपसर्गवातैरचाल्यः, सागर इव गम्भीरो-हर्षशोकाद्यक्षोभ्यचित्तः, चन्द्र इव सौम्यलेश्या-परोपतापकृत्मनःपरिणामरहितः, सूर इव दीप्ततेजा-द्रव्यतः कान्त्या भावतो ज्ञानेन परेषांक्षोभकत्वादा, जात्यकनकमिव जातं सम्पन्न रूपं स्वरूपं रागादिकुद्रव्यविरहाद्यस्य, वसुन्धरेव सर्वाननुकूलेनरान् शीतोष्णादिस्पर्शान् विषहते यः । महतो घृतादितर्पितः स चासो हुनाशनश्चाग्निस्तद्वत्तेजसा-ज्ञानेन तपसा वा ज्वलन्-दीप्यमानः। नास्त्ययं पक्षो | यदुत तस्य भगवनः कुत्रचित् प्रतिबन्धो भवति । क्षेत्रं-धान्यजन्मभूमिः, खलं-धान्यमलपवनादिस्थण्डिलं, नभ-आकाशं । सनयः-सर्वनिकृष्टकालः, आवलिका-असङ्ख्यातसमयरुपा, आणापाणू-उश्वास
निश्वासकालः, स्तोकः-सप्तोछासमानः, क्षगो-बहुतरोधासरुपा, लवः-स्तोकमानः, मुहूर्तः-सप्तसप्तN तिलवमानः, अन्यतरस्मिन् दीर्घकालसंयोगे युगपूर्वादौ । भये-इहलोकादिसप्तविधे, हास्ये हर्षे वा,
पिल्ले त्ति-अनभिव्यक्तमायालोभस्वभावेऽभिष्वङ्गमात्रे प्रेमणि, देषे-अनभिव्यक्तक्रोधमानस्वरुपेऽप्रीतिमात्र, यद्वा रागः-सुखाभिज्ञस्य सुखानुस्मृतिपूर्वः सुखे तत्साधनेऽप्यभिमते विषये गृद्धः प्रेम तत्र, देषो-दुःखाभिज्ञस्य दुःखानुस्मृतिपूर्वो दुःखे तत्साधने वाऽप्रीतिस्तत्र, कलहेऽसभ्यवचनराटयादी, अभ्याख्याने-असदोषाविष्करणे पैशुन्ये-प्रच्छन्नमसदोषाविष्करणे, परपरिवादे-विप्रकीर्णपरगुणदोषवचने, | अरतिश्चित्तो गरुपा, रतिश्चित्ताभिरतिः, समाहारेऽरतिरतिनि, मायामृषे मायामोषे वा-चेषानरकरणेन परवञ्चनं माया तया सह मृषा मायामृषा । मायया वा मोषः परेषां मायामोषस्तत्र मिथ्यादर्शन