________________
कल्प
प्रदीपिका
उपशान्त-उभयतः, यहा मनःप्रभृत्यपेक्षया शान्तादीनि पदानि, अत एव परिनिवृत्त:-सकलसंतापोज्झितः। अनावो-हिंसादिसप्तदशविधाऽसंयमवर्जितः, अमम-आभिष्वङ्गिकममेति शब्दरहितः, अकिश्वनो-निद्रव्यः, छिन्नग्रन्थो-मुक्तहिरण्यादिग्रन्थः, निरुपलेपो-द्रव्यभावमलरहितः तत्र द्रव्यतोऽगमलो भावतो मिथ्यात्वादिमलस्ताभ्यां रहितः, निरुपलेपत्वमेवोपमानैराह-कांस्यपात्रीव मुक्तं तोयमिव तोय-बन्धहेतुत्वात् स्नेहो येन, शंख इव निरञ्जनोऽथवा रअनं-रङ्गणं रागायुपरञ्जनं तस्मान्निर्गतः, जीव इवाप्रतिहतगतिः-औचित्येनास्खलितो विहारे संयमे वा, गगनमिव निरालम्बनो-देशग्रामकुला| चाऽऽलम्पनोज्झितः, वायुरिवाप्रतिबद्धः-क्षेत्रादौ 'गामे एगराइयं' इत्यादिवचनात् । शारदसलिलमिव शुदहृदयः-कालुष्याऽभावात्, पुष्करपत्रमिव निरुपलेपः-पङ्कजलतुल्यस्वजनविषयस्नेहरहितत्वात, कूर्म इव गुप्तेन्द्रियः स हि ग्रीवापादचतुष्करूपाङ्गपञ्चकेन गुप्तः स्यादेवं स्वाम्पपीन्द्रियपञ्चकेन, खड्गी-गण्डकाख्यो जीवविशेषस्तस्य विषाणं-शृङ्गामेकमेव स्यात्तदेको जातः एकभूतो-रागादिसहाय्याऽभावात, विहग इव विप्रमुक्तो-मुक्तपरिकरत्वादनियतवासाच, भारण्डपक्षीवाऽप्रमत्तो-निद्राद्यऽभावात, भा. रण्डपक्षिणः कीदृशाः ? इत्याह
भारण्डपक्षिणःख्यातास्त्रिपदा मर्त्यभाषिणः। द्विजिह्वाः द्विमुखाश्चेकोदराऽभिन्नफलैषिणः॥१॥ ___ कुञ्जर इव सौण्डीरः-कर्मशत्रुसैन्यं प्रति शरः, वृषभ इव जातस्थामा स्वीकृतमहाव्रतभारवहनं प्रति
.,