SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ वा, मासे वा, उऊ वा, अयणे वा, संवच्छरे वा, अन्नयरे वा, दीहकालसंजोए वा । भावओकोहे वा, माणे वा, मायाए वा, लोभे वा, भए वा, हासे वा, पिज्जे वा, दोसे वा, कलहे वा, अभक्खाणे वा, पेसुन्ने वा, परपरिवाए वा, अरइरई वा, मायामोसे वा, जाव मिच्छादसणसल्ले वा, (प्र० ६००) तस्स णं भगवंतस्स नो एवं भवइ ॥ ११७॥ व्याख्या-तएणमित्यादितो......."भवईत्यन्तम् । तत्र यत एवं ततोऽनगारोजातः। अनगारस्वख्यापकविशेषणान्याह-ईर्यायां-गमनागमनादौ समितः-सम्यक् प्रवृत्तः, भाषायां भाषणे समितः, एषणायां-द्विचत्वारिंशदोषविशुद्धभिक्षाग्रहणे, आदाने-ग्रहणे उपकरणस्येति गम्यम्, भाण्डमात्रायावस्त्रायुपकरणरूपपरिच्छदस्य यद्वा भाण्डस्य वस्त्रादेम॒न्मयभाजनस्य वा मात्रस्य च-पात्रविशेषस्य निक्षेपणेविमोचने समितः-सुप्रत्युपेक्षणादिना, उच्चारो-विटू प्रश्रवणं-मूत्रं खेलो-निष्ठीवनं सिद्धानो-नासिकामलः जल्लो-देहमलः तेषां परिष्ठापनायां समितः । एतच्चान्स्य समितिद्वयं प्रभोर्भाण्डसिंङ्घानाद्यभावेऽपि नामाखण्डितार्थमित्यमुक्तम् । मनः समितः इत्यादि मनःप्रभृतीनां कुशलानां प्रवर्तकः, मनोगुप्तः इत्यादिषु तेषामशुभानां निषेधकः, यतः समितिः सत्प्रवृत्तिः, 'गुप्तिस्तु निरोधः, अत एव गुप्तः-सर्वथा गुप्तत्वादू, गुप्तेन्द्रियः-शन्दादिषु रागोचभावात, गुप्तं-नवगुप्तिमद् ब्रह्म-मिथुनविरतिरूपमाचरति इत्येवं शीलो यः सः। अक्रोध इत्यादि व्यक्तम् । अत एव शान्तोऽन्तर्वृत्त्या, प्रशान्तो-बहिर्वृत्या,
SR No.600393
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorMafatlal Zaverchand Gandhi
PublisherMukti Vimal Jain Granthmala
Publication Year1935
Total Pages376
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy