________________
गिरीनपि कम्पयन् प्रभुमुत्क्षिप्य उत्क्षिप्य पातयति ।१६।, ततः कलिकावातश्चक्रवद् भ्रामयति ।१७। ततो भारसहस्रलोहमयचक्रेणाहतो भूमौ प्रभुराजानुनिमग्नो येन मेरुचूलाऽपि चूर्णीस्यात् । १८, ततः प्रभातं विकुळ वक्ति, देवार्यावापि तिष्ठसि? स्वामी ज्ञानेन रात्रिं वेत्ति । १९ ।, देवढि दर्शयित्वा | भणति, वृणीहि महर्षे ! येन तव स्वर्गग मोक्षेण वा प्रयोजनं, तथाप्यक्षुब्धं देवाङ्गना नाव्यगीतविलासादिभिरुपसर्गयति ।२०, एवमेकस्यां निशि विंशत्योपसगैर्न मनागपि चुक्षोभे भगवान् । ततः षण्मासान यावदनेषणीयाहारकरणादिना निरशनस्य प्रभोविचित्रोपसर्गान् कृत्वा “हे आर्य ! व्रज विहारादौ,
हिण्ड गोचर्यादौ नाऽहं किञ्चित् करोमि" इत्युक्त्वा प्रभुं नत्वा सङ्गमको विषष्णः सन् स्वर्गमगात, Kी स्वामी च गोकुले वत्सपाल्या स्थविरया पायसेन प्रत्यलाभि, दिव्यानि च
इतश्च कालं तावन्तं सुराः सौधर्मवासिनः । निरानन्दाः निरुत्साहाः उद्विग्नाश्चावतस्थिरे ॥१॥ - शक्रोऽपि मुक्तनेपथ्या-ङ्गरागोऽत्यन्तदुखितः । सङ्गीतकादिविमुखो, मनस्येवमचिन्तयत् ॥२॥ इयतामुपसर्गाणां निमित्तमभवं ह्यहम् । मया स्वामिप्रशंसायां, कृतायां सोऽकुपन सुरः ॥३॥ शक्रः सङ्गमकं दृष्ट्वा सद्यो भूत्वा पराङ्मुखः । इत्यूचे भोः सुराः सर्वेऽप्याकर्णयत मद्वचः॥४॥ अयं हि कर्मचाण्डालः पापः सङ्गमकाऽमरः। दृश्यमानोऽपि पापाय, तद् द्रष्टुं नैप युज्यते ॥५॥ बह्वनेनापराद्धं हि, यत् स्वामी नः कदर्थितः । अस्मनोऽपि न किं भीतो, भवानीतो न यद्ययम् ॥ ६ ॥ अर्हन्तो नान्यसाहाय्यात्, तप्यन्ते तप इत्यहम् । तथोपसर्गकालेऽपि, नामुं पापमशिक्षयम् ॥ ७॥ ३७