________________
कल्प
14
८८.
षष्ठतपसः सनखकुल्माषपिण्डिकया एकेनोष्णोदकचुलुकेन पारयतः षण्मास्या तेजोलेश्या उत्पद्यते' इति प्रदीपिका सिद्धार्थोक्तोपायः, क्वचित् स्वाम्युक्तोपायः, पृथग्भूतः श्रावस्त्यां कुम्भकारशालास्थः तां साधितवान् । त्यक्तवतश्रीपार्श्वशिष्यषट्कादष्टाङ्गनिमित्तं च शिक्षितवान् । ततः अहङ्कारादहं जिनोऽस्मि इति लोके । अवादीत् । ततः स्वामी श्रावस्त्यां दशमं वर्षा रात्रं ॥१०॥ विचित्रं तपोऽकरोदित्याद्यनुक्रमेण यावत् स्वामी बहुम्लेच्छां दृढभूमि गतः । तस्यां बहिः पोहालोद्याने पोलासचैत्येऽष्टमभक्तेन एकरात्रिकी प्रतिमा तस्थौ। __इतश्च सभागतः शक्रस्त्रैलोक्यजना अपि वीरचेतश्चालयितुमसमर्था इति प्रशंसां व्यधात्, तदनु शक्रामर्षेण सामानिकसङ्गमाख्यसुरः एत्य आदौ धूलिवृष्टिं चक्रे । यया पूर्णाक्षिकर्णादिश्रोताः स्वामी निरुच्यासोऽभूत् । १ ।, ततो वज्रतुण्डपिपीलिकाभिश्चालनीतुल्यश्चक्रे, ।२। तथा वज्रतुण्डोइंशाः।३।। तीक्ष्णतुण्डघृतेल्लिकाः।४। वृश्चिकाः ।५। नकुलाः ।६। सर्पाः।७। मूषकाश्च ।८। भक्षयन्ति, तथा । हस्तिनः ।९। हस्तिन्यश्च । १० । शुण्डाघातचरणमईनादिना, पिशाचोऽहासादिना । ११, व्याघ्रो दंष्ट्रानखविदारणादिना ।१२।, सिद्धार्थत्रिशले करुणविलापादिना । १३ । उपसर्गयन्ति, ततः स्कन्धावारसमीपस्थः प्रभोः पदोर्मध्येऽग्निं प्रज्वाल्य स्थालीमुपस्थाप्य पचति ।१४।, ततश्चाण्डालस्तीश्णतुण्डशकुनीनां पञराणि प्रभोः कर्णवाहुमूलादिषु लम्बयति ते च मुखैर्भक्षयन्ति ।१५, ततः खरवातो