SearchBrowseAboutContactDonate
Page Preview
Page 202
Loading...
Download File
Download File
Page Text
________________ कल्प ८७ प्राह- 'क्व यूयं ? क्व मे गुरुः,' तैरुचे यादृशस्त्वम् तादृशस्ते गुरुः । ततो रुष्टेन ऊचे 'मद्गुरोस्तपसा दह्यतां युष्मदाश्रयः,' तैरूचे–'नास्माकं भीतिः' पश्चात्स प्रभोः सर्व प्राह । सिद्धार्थोऽवदत् 'नैते साधवो दयन्ते । रात्रौ जिनकल्पतुलनां कुर्वन् मुनिचन्द्रः प्रतिमास्थः चौरभ्रान्त्या कुम्भकारेण हतः, जाताऽवविज्ञानश्च स्वर्ग प्राप्तः । तन्महिमार्थमायातसुरकृतोद्योतं वीक्ष्याश्रयो दह्यते तेषामित्याह प्रभुं गोशालः, सिद्धार्थेन यथावदुक्ते तत्र गत्वा तच्छिष्यान् निर्भययातः । क्रमेण प्रभुः पृष्टचम्पां प्रातस्तत्र तुर्य वर्षारात्रं ॥४॥ चतुर्मास क्षपणेनातिवाह्य बहिः पारयित्वा क्रमेण स्वामी श्रावस्त्यां वहिः प्रतिमयाऽस्थात् । तत्र सिद्धार्थोक्तमहामांस भोजन परिहाराय गोशालो वणिक्कुलेषु भ्रमन् पितृदत्तवणिग् भार्यया निन्द्रामृतापत्या श्रीभद्रया नैमित्तिकवाचाऽपत्यजीवनाय गर्भमांसमिश्रं पायसं भोजितो, अग्निभयाच्चान्यतो गृहे द्वारं चक्रे । आगतेन सिद्धार्थोक्ताप्रत्यये पायसवमने कृते मांसखंडनखवालादि दृष्ट्वा रुष्टेन तद् गृहं पश्यताऽपि न दृष्टं ततः स्वामितपसा पाटकोऽपि ज्वालितः । क्रमेण प्रभुः क्लिष्टकर्मनिर्जरार्थं लाटा (ढा) देशं प्राप, तत्र पूर्णकलशाख्ये अनार्थग्रामे प्रभोर्गच्छतोऽन्तरा द्वौ रतेनी 'अपशुकन' इति मत्वा असिमुत्पाव्य धावितौ, ज्ञातवृत्तान्तवज्रिणा हतौ । ततः स्वामी भद्रिकापूर्वी पञ्चमे वर्षांरात्रे चातुर्मास्यं तपश्च ॥ ५ ॥ ततो बहिः पारयित्वा ततः क्रमेण शालिग्रामोद्याने प्रतिमास्त्रप्रभोर्माघमासे त्रिपृष्टभवापमानितान्तःपुरी मृत्वा व्यन्तरीभूता तापसीरूपं कृत्वा जलभृतजटाभिरुपसर्ग, उपशान्ता च स्तुतिं प्रदीपिका ८७
SR No.600393
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorMafatlal Zaverchand Gandhi
PublisherMukti Vimal Jain Granthmala
Publication Year1935
Total Pages376
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy