________________
'मललाख्यो मङ्खः, तद्भार्या सुभद्रा, शरवणविषये गोबहुलदिजस्य गोशालायां प्रसुतेति गोशाल इति नाम । स च प्रभोः विजयगृहे कृत कूरादिपारणे पञ्चदिव्यानि वीक्ष्य तच्छिष्योऽस्मि इति प्रभुमाह। द्वितीयपारणे पक्वान्नादिना नन्दः, तृतीये सर्वकामगुणितपरमान्नादिना सुनन्दः प्रभु प्रतिलाभितवान् ॥२॥ ततः कोल्लाकसन्निवेशे चतुर्थ पारणं बहुलदिजगृहे पायसेन कृतवान् दिव्यानि च, गोशालस्तु तन्तुवायशालायां प्रभुमनुपलभ्य अन्तोबहिश्च रोजगृहे गवेषयन् स्वोपकरणं विप्रेभ्यो दत्वा शिरो मुण्डयित्वा कोल्लाके प्रभुं दृष्ट्वा त्वत्पव्रज्यास्तु ममेत्युक्तवान् । ततः स्वामी सगोशालः सुवर्णखल ग्रामं याति, अन्तरा च गोपैः स्थाल्यां पच्यमानं पायसं वीक्ष्य गोशालः प्रभुंग्राह-'आगम्यतांभुज्यतेऽन' सिद्धार्थेन तद्भगकथने गोपैः प्रयत्नरक्षिताऽपि स्थाली भग्ना। सतो गोशालेन 'यद्भाव्यं तदभवत्येव' इति नियतिः स्वीकृता । ततः स्वामी ब्राह्मणग्रामे नन्दपाटके नन्देन प्रतिलाभितः, गोशालस्योपनन्दपाटके उपनन्देन पर्युषितान्नं [वासीभक्तं] दत्तं । तत स रुष्टो मद्धर्माचार्यतपसाऽस्य गृहं दह्यतामिति शशाप, तत्तथैवासीत्। पश्चात् प्रभुश्चम्पायां प्राप्तः, तत्र बिमासक्षपणेन वर्षावासं तृतीयमवसत्, चरमदिमासपा| रणकं चम्पाया बहिश्चके॥३॥
॥२॥३॥ ततः स्वामी कुमारकं सन्निवेशं गत्वा उद्याने प्रतिमयाऽस्थात् । इतश्च पार्धशिष्यो भूरिशिष्ययुतो मुनिचन्द्रमुनिः कुम्भकारशालायां तस्थौ, तत्साधून वीक्ष्य गोशालः माह-के युयम् ? तैरुक्तं निर्ग्रन्थाः, पुनः
३६