SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ कल्प ८६ तदनु गङ्गोत्तारे प्रभोस्त्रिष्टभवविदारितसिंहजीव सुदंष्ट्रसुरविकुर्वितदुर्वातनौमज्जनाद्युपसर्गं कम्बलशम्बलाख्यौ नागकुमारौ निवारितवन्तौ तयोरुत्पत्तिस्त्वेवं "मथुरायां जिनदासो वणिग् श्राद्धः, तद्भार्या साधुदासी, ताभ्यां परिग्रहप्रमाणे क्रियमाणे चतुष्पदप्रत्याख्यानं गृहीतं, ततो दिने दिने गोरसो गृह्यते । तत्रैका आभीरी गोरसमादायागता, साधुदासी अवादीदिति 'मान्यत्र यायाः यावन्मात्रगोरसमानयिष्यसि तावन्मात्रमादास्ये' एवं मिथः सख्यं जातं । अन्यदा भीगृहे विवाहो जातस्तदर्थे श्रेष्ठिना वस्त्रादीनि प्रेषितानि ततस्तुष्टेनाभीरेण नवौ कम्बलशम्बलाभिधौवृषौ बलात् श्रेष्ठिगृहे बडौ । श्रेष्ठिनाऽचिन्ति यदि मौनं रक्षामि तदेता धूर्वाहनादिकष्टं यास्यतः इति विचिन्त्य श्रेष्ठिप्रासुकतृणादिना तौ पुपोष । क्रमेणाष्टमीचतुर्दश्युपवासकरणपुस्तक वाचनातत्परश्रेष्ठिसङ्गाद्भद्रकौ जातौ तथाष्टमोचतुर्दश्योरूपवासं चक्रतुः । अन्यदा मित्रेण भण्डीरयक्षयात्रार्थमनापृच्छय गृहीतौ, रथे वाहितौ, सौकुमार्यात त्रुटितौ, ततस्तेनानीय श्रेष्ठिगृहे बद्धौ परं तौ न चरतः न पिवतः, ततः श्रेष्ठिना तयोरनशनं कारितं, नमस्कारश्च दत्तः, मृत्वा नागकुमारौ जातौ । तत्र अवधिना सोपसर्ग प्रभुं ज्ञात्वा प्राप्तौ तयोरेकेन नौरुत्तारिता, अन्यस्तु सुदंष्ट्रेण सह युद्धं कुर्वन्नभूत् । ततः प्रभुं निसर्ग विधाय पुष्पवृष्टिं कृत्वा नत्वा च स्वस्थाने गतौ । ततः स्वामी द्वितीयवर्षाराने राजगृहे नालन्दायां तन्तुवायशालायामाद्यं मासक्षरणं प्रपद्य तस्थौ । तत्र आगाद् गोशालस्तस्योत्पत्तिस्तेवं ८६ ८६
SR No.600393
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorMafatlal Zaverchand Gandhi
PublisherMukti Vimal Jain Granthmala
Publication Year1935
Total Pages376
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy