________________
कल्प
८५
उद्रम चाबिम्ब ८ मथाद्विर्मानुषोत्तरः । निजांत्रैर्वेष्टितः स्वेन ९, रुटं मेरुशिरोऽपिच १० ॥ ४ ॥ प्रातरागाज्जनः सर्वः, इन्द्रशर्मोत्पलोऽपिच । अक्षताङ्गं पूजितं च, प्रभुं प्रेक्ष्य मुदं ययुः ॥ ५ ॥ कायोत्सर्गावसाने च, प्रभुं नत्वोत्पलः पुनः । ज्ञानसामर्थ्यतो ज्ञातप्रभुस्वमो ब्रवीदिदं ॥ ६ ॥ स्वामिन्निशान्ते युष्माभिः, सुस्वमाः प्रेक्षिता दश । तत्फलानि स्वयं वेत्सि, भक्त्या रव्यामि तथाप्यहं ॥ ७ ॥ हतस्ताल पिशाचोऽयं, तन्मोहं निहनिष्यसि १ । यः श्वेतकोकिलः शुक्लध्यानं आरोक्ष्यसीत्सतत् २ ॥ ८ ॥ चित्रको किलस्तद्वत्, द्वादशाङ्गीं प्रथयिष्यसि ३ । गोवर्गेौ यत्तु तद्भावी संघस्तव चतुर्विधः ४ ॥ ९ ॥
पद्मसरो देवनिकायसेवकस्ततः ५ । यत्तु सागर सुतीर्ण, उत्तरिष्यसि तद्भवं ६ ॥ १० ॥ यच्चार्कः केवलज्ञानं, तत्समुत्पत्स्यते तत्र ७ । यच्चान्त्रैर्वेष्टितोद्रिस्तत् समतीपं यशस्तव ८ ॥ ११॥ यन्मेरुशृङ्गामारूढस्त्वं, तत्सिंहासन स्थितः । धर्मे द्रक्ष्यसि ९ यद्दाम्नी, तयोर्वेद्भि फलं नहि १० ॥ १२ ॥ अथाचचक्षे भगवान, दामद्वयफलं त्वदः । गृहस्थनां यतीनां च वक्ष्ये धर्मं द्विधाऽपि च ॥ १३ ॥ प्रथमो वर्षारात्रः ॥ १ ॥ ततः स्वामी मोराकेऽगात्, तत्र स्वामी सत्काराद्यर्थ सिद्धार्थो जनानां निमित्तं वक्ति । स्वामिशोभां वीक्ष्य कुद्धेनाछन्दकेन पाखण्डिना तृणच्छेदाच्छेदप्रश्ने कृते सिद्धार्थेन 'न छेत्स्यते' इत्युक्ते छेदोद्यतस्य तस्याङ्गुलीः शक्रः चिच्छेद । ततो रुष्टः सिद्धार्थों जनानित्याह-'अयं चौरः, यतः कर्मकरस्य वीरघोषस्य दशपलिकं वहलकं हृत्वा खर्जुर्याधा न्यस्तं एकमिदं । द्वितीयमिन्द्रशर्मणो मेषोऽनेन जग्धः, तदस्थीनि वदर्यधः सन्ति ।
८५