________________
तान् उत्पन्नान् सम्यक् सहते भयाऽभावात्, क्षमते क्रोधाऽभावात्, तितिक्षते - दैन्याद्यभावात्, अध्यासयति- अविचलाङ्गत्वात् । तत्र देवादिकृतोपसर्गान् सहनादित्वेन दर्शयति यथा
"स्वामी प्रथमचतुर्मासके शूलपाणियक्षायतने स्थितः, स च दुष्टः कस्यापि बहिः स्थितिं रात्रौ न सेहे । स प्राग्भवे धनदेववणिजो वृषोऽभूत्, अन्येद्युः पञ्चशतशकटानां नद्युत्तारणेन त्रुटितः, धनदेवोऽपि वर्द्धमानग्रामे ग्राम्यजनानां तत् शुश्रूषायै द्रव्यं दत्वाऽचलत्, तैस्तत् शुश्रूषा न कृता, द्रव्यं च स्वयं भक्षितं । वृषोऽपि क्षुत्तृट्पीडया मृत्वा शूलपाणिर्यक्षोऽभूत्, अवधिना स्वव्यतिकरं ज्ञात्वा रुष्टः सन् तदूग्रामजनान् अमारयत् । किश्व पदे पदे तदस्थिराशिदर्शनात् तस्य ग्रामस्य 'अस्थिकग्राम' इति नाम लोके प्रससार । ततो लोकेन विज्ञसो यक्ष इत्यवक्-मदायतनं मन्मूर्ति च कारयित्वा पूजा कार्या, तत्सर्व (लोकैः) प्रपन्नं, तत्प्रबोधाय तदायतने प्रभुः रात्रौ प्रतिमां प्रपेदे । यक्षोऽपि तत्रस्थं प्रभुं वीक्ष्य क्रुधा महाहहासं मुञ्चन् शिरःकर्णनखादिषु व्यथां कुवैश्च हस्ति-पिशाच-सर्वादिरूपैः कदर्थयामास, परं प्रभुचलत् । पश्चात् प्रबुद्धो यक्षः प्रभोर्भक्तिं चक्रे, सिद्धार्थेन तर्जितः सन् स विशेषाच्च ।
“ नाथोऽपि चतुरो यामान् किंचिदनान् कदर्थितः । श्रमान्निद्रामधिगतः पश्यत्स्वमानमून् दश ॥ १ ॥ वद्धिष्णुस्ताल पिशाचः स्वयं व्यापादितः १ किल । कोकिलौ श्वेतचित्रौ च २ - ३, सेव्यमानौ स्वसंनिधौ ॥२॥ दामादयं च गन्धाढ्यं ४, गोवर्गः सेवनोद्यतः ५ । पद्माञ्चितं पद्मसरो ६, दोर्भ्यां तीर्णश्च सागरः ७ ॥ ३ ॥
३५