________________
कल्प
प्रदीपिका
यत् , तेनोक्तं यदिदमखण्डं स्यात्तदाऽस्य दीनारलक्षमुत्पद्यते, ततोऽध्धमानय, योजयित्वाऽहं पूणे करि- ज्यामि, तन्मूल्याई च विभज्य आवां गृहिष्यावः । स द्विजो लजया मागयितुमशक्नुवन् प्रभोः पृष्टलग्नो वर्ष यावद् बभ्राम,” पश्चाब तेन तद? पतिते गृहीते भगवान् तेण परं ति-ततः परं यावज्जीवमचेलोऽजनि । पाणिपतग्राहिकः-पाणिपात्रः स्वामी सप्रावरणधर्मस्थापनार्थ देवदृष्यपरिग्रहं चक्रे तथा प्रथमपारणकं सपात्रधर्मज्ञापनार्थ पात्रे एव विहितवान् ततः पाणिपात्रः। निच्चं वोसट्टकाए त्ति-नित्यं व्युत्सृष्टकायः-परिकर्मणा वर्जनात, त्यक्तदेहः-परीषहसहनात, एवं पथि विहरति सति भगवति गङ्गापुलिने चकाङ्कशादिलक्षणाङ्कितं प्रभोः पादन्यासं प्रेक्ष्य पुष्पो नाम सामुद्रिकः चिन्तयति-'एषः चक्री एकाकी याति, ततो गत्वाऽहं व्याकरोमि, ममैतस्माङ्गोगा भविष्यन्ति, कुमारत्वे सेवे। स्वाम्यपि स्थुणाख्यसन्निवेशस्य बहिः प्रतिमायां स्थितः, तत्र प्रभुं दृष्टा पुष्पश्चिन्तयति-'अहो मया वृथाधीतं शास्त्रमिदं । अत्रान्तरे शक्रोऽवधिना पुष्पं प्रभुं च तत्र प्रेक्ष्यागतः, प्रभुं नत्वा च वक्ति-रे पुष्प ! त्वं लक्षणं न वेत्सि, एषोऽमितलक्षणः, तथाऽस्य प्रभोः रुधिरं मांसं च गोक्षीरगौरमित्याद्यभ्यन्तरलक्षणानि देहे सन्ति, परं शास्त्रं नालीकं, एष धर्मचक्री नरेन्द्रादिपूजितो भविष्यतीत्युक्त्वा धनस्वर्णरत्नराशिभिः शक्रेण पुष्योः पूजितो दृष्टः, जिनोऽप्यन्यत्र विहरति । जे केइ उवसग्गा उप्पज्जति त्ति-ये केचिदुपसर्गा उत्पद्यन्ते, तद्यथा-'दिव्वा वेत्यादि-देवकृता वा, मनुष्यकृता वा, तिर्यग्योनिकृता वा अनुलोमा वा-दृश्यमानवपुःखकरणाऽभावे मनःशुभपरिणामध्वंसिनः, प्रतिलोमा वा-वर्मनसोरपि दुःखदायिनः,