________________
पडिलोमा वा, ते उप्पन्ने सम्मं सहइ खमइ तितिक्खइ अहियासेइ ॥ ११६ ।।
समणेत्यादितः.........अहियासेईत्यन्तम् । तत्र, साधिकमासवर्षादूर्ध्व देवदूष्याढे पतिते दक्षिणवाचालपुरासन्नसुवर्णवालुकानदीतटतरुकण्टके विलग्ने च स्वामी सिंहावलोकनेन तद् अद्राक्षीत्, ममत्वेनेत्येके, स्थाण्डिले पतितमस्थण्डिले वेत्येके, सहसात्कारेणेत्यन्ये, शियाणां वस्त्रपात्रादिसुलभं भाविन वेत्येके, भाविस्वसंततेः कषायबाहुल्यात्कण्टकपायतामाकलय्य निर्ममतया पुनर्न जग्राह । त? हि | प्राग्दत्तमासीत्तचैवं__ "पितृमित्रम् सोमाख्यो द्विज आजन्मतोऽपि दुस्थः, स च प्रभोर्दानावसरे देशान्तरे गतोऽभूत्, निर्धन एव गृहमागतः । भार्ययोक्तं रे निर्लज्ज ! रे निर्लक्षण ! प्रभुणा वार्षिकदानं दत्तं तदवसरे नाऽगा'। | अथ तमेव प्रभु प्रार्थय, स प्रभुमागत्येत्यवादीत्, 'हे स्वामिन्नहं दुःस्थितोऽस्मि, दीनोऽस्मि, मया देशान्तरं भ्रमता किमपि न प्राप्त, किं किंन कृतं, कः को न पार्थितः, कस्य कस्य शीर्ष ननामितं, दुर्भरोदरस्य कृते किं किं न कृतं, तेन किमप्यर्पय मे । ततः स्वामी कृपया देवदृष्यमर्कीकृत्य तस्मै ददौ, नान्यन्ममास्तीति वदन प्रभुरेव शिष्टमई यत्स्वस्कन्धे न्यस्तवांश्च, तत्पभोः सन्ततेर्वस्त्रपात्रादिषु मूर्छासूचकमिति कश्चित् १, कश्चिच कालानुभावात् ऋद्धिमानपि नोदारचित्तो भविष्यतीति २, अन्यस्तु प्रभोः विप्रकुलोत्पन्नत्वेनेत्याशयोऽभूत् कथमन्यथा वार्षिकदानदाताऽपि 'अन्यत् किञ्चिन्मे नास्ति' इत्युक्त्वाऽपि सदप्यखण्डं नादास्यदिति । ततो बिजोऽपि महाप्रसादं मन्यमानस्तदादाय चलितः, तुम्नवायाय तददर्श