________________
कल्प
८३
विहरन्नथ मोराके, सन्निवेशे प्रभुर्ययौ । प्राज्यदूइज्जंतकाख्य-तापसाश्रमशालिनि ॥ १ ॥ पितुर्मित्रं कुलपति स्तत्र प्रभुमुपस्थितः । पूर्वाभ्यासात् स्वामिनाऽपि तस्मिन् बाहुः प्रसारितः ॥ २ ॥ तस्य प्रार्थनया स्वामी, तत्रैकां रात्रिमाविशत् । स्थेयं वर्षास्विहेत्यूचे, प्रस्थितः स पुनः प्रभु ॥ ३ ॥ नीरागोऽप्युपरोधेन, प्रतिश्रुत्यान्यतो ययौ । अष्टौ मासान् विहृत्याथ, तत्र वर्षार्थमागमत् ॥ ४ ॥ कुलपत्यर्पिते वर्षा - स्तस्थौ स्वामी तृणौकसि । गावो बहिस्तृणानाप्त्या, वर्षारम्भे क्षुधातुराः ॥ ५ ॥ अधावन् खादितुं वेगात्, तापसानां तृणोटजान् । निष्कृपास्तापसास्तास्ते, ऽताडयन् यष्टिभिर्भृशं ।। ६ ।। ताडितास्तैश्वखादुस्ताः, श्रीवीरालङ्कृतोटजम् । स्थितः प्रतिमया स्वामी, नाश्नतीस्ता न्यषेधयत् ॥ ७ ॥ उटजस्वामिना रावा, चक्रे कुलपतेः पुरः । प्रभुं सोऽप्यशिषे नीडं, रक्षन्ति न वयोऽपि किम् ॥ ८ ॥ अप्रीतिर्मयि सत्येषा, तन्न स्थातुमिहोचितम् । विचिन्त्येति प्रभुः पञ्चा - भिग्रहानग्रहीदिमान् ॥ ९ ॥ नामीतिमद्गृहे वासः १, स्थेयं प्रतिमया सदा २ । न गेहिविनयः कार्यः ३, मौनं ४ पाणौ च भोजनम् ५ ॥१०॥ शुचिराका चतुर्मास्या, अर्द्धमासादनन्तरं । प्रावृष्यथास्थिकग्रामं, जगाम त्रिजगद् गुरुः । ११ ।। ' ११५ ॥ समणे भगवं महावीरे संवच्छरं साहियं मासं जाव चीवरधारी हुत्था । तेण परं अचेले पाणिपडिग्गहिए, समणे भगवं महावीरे साइरेगाईं दुवालसवासाई निचं बोसट्टकाए चियतदेहे जे केइ उवसग्गा उप्पज्जति, तं जहा दिव्वा वा माणुसा वा तिरिक्खजोणिया वा अगुलोमा वा
प्रदीपिका
८३