________________
कल्प
प्रदीपिका
स्वामी च सामायिकं कुर्वन् 'करेमिसामाइअंसव्वं सावन जोगं पञ्चक्खामी'त्याधुचरति, न 'भंते'त्ति तथाकल्पत्वात्, एवमागमोक्तविधिमा देवदूसं त्ति इन्द्रेण वामस्कन्धापितं दिव्यवस्नविशेषमादाय एकोरागद्वेषसहायविरहात, अद्वितीय-एकाकी न तु ऋषभादिवत् चतुःसहस्रादियुक्तः, मुण्डो-द्रव्यतः केशलुचनात्, भावतः-क्रोधाद्यभावात्, अगारान्निष्क्रम्येति शेषः, अनगारतां-साधुतां प्रव्रजितो गतः, विभक्तिपरिणामादा अनगारतया प्रव्रजित:-श्रमणीभूतः।
तिहिं नाणेहि समग्गा तित्थयरा जाव हुंति गिहिवासे । पडिवन्नमि चरित्ते, चउनाणी जाव छउमत्थे ॥१॥ सकाइआ देवा भयवं तं वंदिउं सपरितोसा । कयनंदीसरजत्ता, निअनिअहाणाई संपत्ता ॥२॥
[इति पञ्चमं व्याख्यानं]
[अथ षष्ठं व्याख्यानं ] वीरो वि बंधुवग्गं आपुच्छिअ, पत्थिओ विहारेण । सो वि अ विसन्नचित्तो, बंदिअ वीरं पडिनिअत्तो ॥३॥ दिवसे मुहत्तसेसे कुम्मारग्गामपवरमणुपत्तो । रयणीए तत्थ सामी पडीमाइ टिओ निकंपो ॥ ४॥ गोवनिमित्तं सक्कस्स आगमो वागरेइ देविंदो । कुल्लागबहुलछठस्स पारणे पयस वसुहारा ॥५॥
गोपः सर्वदिनं वृषान् वाहयित्वा सायं स्वामिसमीपे तान् मुक्त्वा गोदोहाय गृहं गतः। ते तु चरितुं बने गताः, सचागतोऽवीक्ष्य स्वामिनमपृच्छत्, स्वाम्यदत्तोत्तरः न वेत्तीति रात्री बने विलोकयति स्म,