SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ सर्वशब्दप्रवृतिर्दृष्टा इत्याह- महया इडीए इत्यादि प्राग्वत् । एवम् क्षत्रियपुरमध्ये भवनपङ्क्तिसहस्राणि समतिक्रमतः प्रभोः पृष्ठे गजारूढो घृतछत्रचामराभ्यां वीज्यमानः चतुरङ्गचमूयुक्तो नन्दिवर्द्धनो राजाऽनुगच्छति यावत् ज्ञातखण्डवनेऽशोकवरपादपो-वृक्षस्तस्याधः शिविकां-कूटाकाराच्छादितां जम्पा - विशेषां प्रभुः स्थिरीकारयति, शिविकातः प्रत्यवरोहति अवतरति । स्वयमेवाभरणान्युन्मुञ्चति-अवतारयति । तानि च कुलमहत्तरिका हंसलक्षणपटशाटकेन प्रतीच्छति, प्रतीच्छय च प्रभुं प्रत्याह “इक्खागकुलसमुत्पन्ने सि णं तुमं जाया ! कासवगुत्ते सि णं तुमं जाया ! उदितोदितनायकुलनहयलमिअंकसिद्धत्थजञ्चखत्तिअसुत्ते सि णं तुमं जाया ! जच्चखत्तिआणीए तिसलाए सुअ सि णं तुमं जाया ! देवनरिंद पहिअकित्ती सि णं तुमं जाया ! एत्थ सिग्धं चंकमिअव्वं गुरुअं आलंबेअव्वं असिधारं महव्वयं चरिअव्वं जाया ! परिक्कमिअव्वं जाया ! अस्सि च णं अठ्ठे नो पमाइअव्वं " अणवरयपडतंसुपायनंदिवर्णमुहसयणवग्गसमेआ अंसूणि विणिम्मुअंता वंदइ नमसह, वंदित्ता नमसित्ता एगंते अवकमंति । ततः प्रभुरेकया मुष्टया कूर्चस्य, चतसृभिस्तु शिरसः इति पञ्चमौष्ठिकं लोचं करोति । शक्रश्च हंसलक्षणपशाटकेन केशान् प्रतीच्छ्य क्षीराब्धौ प्रवाहयति । ततञ्ध दिल्वो मणुस्सघोसो तुरनिनाओ अ सक्कवयणेणं । खिप्पामेव तिलुको जाहे पडिवज्जइ चरितं ॥ १ ॥ araण नमुकारं, सिद्धाणमभिग्नहं तु सो मिहे । सव्वं मेऽकर णिज्जं पार्वति चरितमारूढो ॥ २ ॥
SR No.600393
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorMafatlal Zaverchand Gandhi
PublisherMukti Vimal Jain Granthmala
Publication Year1935
Total Pages376
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy