________________
प्रदीपिका
जितं च-सात्म्यापन्नं पालय श्रमणधर्म। जितविनोऽपि च त्वं हे देव! वस सिद्धिमध्ये, 'अत्र सिद्धिशब्देन श्रमणधर्मस्य वशीकारस्तस्य मध्यं लक्षणयोत्कर्षस्तत्र' त्वं तिष्ठेत्यर्थः। रागद्वेषमल्लौ निजहि-निगृहाण तपसा धृतौ-सन्तोषे धैर्ये वा धणि-अत्यर्थ बद्धकक्षः सन्, मईयाष्टकर्मशत्रून् , केन? ध्यानेनोत्तमेन-प्रधानेन, उत्तमसा वा-तमोऽतीतेन शुक्लेन शुक्लाख्येन, अप्रमत्तः-प्रमादोज्झितः सन् हराहि त्ति-गृहाण आराधना पताकां, वीरेत्यामन्त्रणं त्रैलोक्यमेव रङ्गो-मल्लाक्षवाटकस्तन्मध्ये, प्राप्नुहि च वितिमिरमनुत्तरं केवलवरज्ञानं, गच्छ च मोक्षं परमपदं जिनवरोपदिष्टेन ऋषभादिजिनोक्तमार्गेण-रत्नत्रयलक्षणेन अकुटिलेनकषायादिकौटिल्यपरिहारात् अक्षेपेण मोक्षप्रापकत्वाच सरलेन हत्वा परीसहचमूं। जय जय क्षत्रियवरवृषभ! जात्यक्षत्रियो हि परचमं हन्ति । ऋतवो-दिमासा हेमन्ताद्याः, अयनानि षण्मासानि दक्षिणायनोत्तरायणरूपाणि,अभीतः परीषहोपसर्गेभ्यः, भयभैरवानां-भैरवभयानांक्षान्त्या क्षमो न त्वसामर्थ्यात्। धर्म-प्रस्तुतसंयमे ते-तव अविघ्नं भवतु इति कह-इत्युच्चार्य जयजयशब्दं प्रयुञ्जते स्वजना एव ॥११४ ॥ __ तएणं समणे भगवं महावीरे नयणमालासहस्सेहिं पिच्छिज्जमाणे पिच्छिज्जमाणे, वयणमालासहस्सेहिं अभियुबमाणे अभिथुब्बमाणे, हिययमालासहस्सहिं उन्नंदिज्जमाणे उन्नंदिज्जमाणे, मणोरहमालासहस्सेहिं विच्छिप्पमाणे विच्छिप्पमाणे, कंतिरूवगुणेहिं पत्थिज्जमाणे पत्थिज्जमाण, अंगुलिमालासहस्सेहिं दाइज्जमाणे दाइज्जमाणे, दाहिणहत्थेणं बहूणं नरनारिसह