SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ कल्प ७९ काश्चित्कृतार्द्धतिलकाः,काश्चित्कर्णैकभूषणाः काश्चित् । प्रक्षालितैकचरणा, एकाञ्जितलोचना अपि चट काश्चिदपि भोजनादा - वविहितशौचा विचित्रचित्रेण । बाह्वेकदेशपरिहित – कञ्चुक्यः कौतकादीयुः ९ तथा - शिबिकास्थप्रभोरग्रे तावद्रत्नमयानि स्वस्तीकदीन्यष्टौ मङ्गलानि प्रस्थितानि । ततः क्रमेण पूर्णकुम्भ- भृङ्गार-चामराणि ततो महती वैजयन्ती, ततो वैडूर्यदण्डस्थामलछत्रं, ततो मणिस्वर्णमयं सपादपीठं सिंहासनं, ततोऽष्टशतमारोह रहितमश्वानां, ततः १०८ करिणां, ततः १०८ सघण्टसध्वजसनन्दीघोषनानासम्भृतरथानां ततः १०८ वरपुरुषाणां ततो हयानीकं ततो गजानीकं, ततो रथानीकं, ततः पदात्यनीकं, तता लघुध्वजसहस्रमण्डितो योजनसहस्रोच्छ्रयो महेन्द्रध्वजः, तता खड्गग्रहाः, कुन्तग्रहाः, पीठफलकग्रहाः, हासकारकाः, कान्दर्थिकाः - जयजयशब्दं प्रयुञ्जानाः, ततो नेके उग्राः, भोगाः, राजन्याः, क्षत्रियाः, तलवराः, माण्डम्बिकाः, कौटुम्बिकाः, श्रेष्ठिनः, सार्थवाहाः, देवाः, देव्यश्व, प्रभोः पुरतः पृष्ठतः पार्श्वतो व्यवस्थिताः सम्प्रस्थिताः । ततः सदेवमणुआसुराए त्ति-सदेवमनुजासुरया-स्वर्गमर्त्यपातालवासिन्या पर्षदा समनुगम्यमानं, अग्रेऽग्रतश्च शाङ्खिकाद्यैः परिवृत्तं, तत्र शाङ्खिकाः-चन्दनगर्भहस्ता, मङ्गलकारिणः शङ्खवादका वा, चक्रिकाश्चक्रास्त्राः कुम्भकारा तैलिकादयो वा लाङ्गलिकागलावलम्बितस्वर्णादिमयलाङ्गलाकारधारिणो भट्टविशेषाः कर्षका वा, मुखमाङ्गलिका - मङ्गलपाठकाः, वर्द्धमाना:- स्कन्धारोपितनराः, पुसमाण त्ति पूष्यमाणा - मागधाः पुरोहितस्थानीया मान्या वा, घण्टया प्रदीपिका
SR No.600393
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorMafatlal Zaverchand Gandhi
PublisherMukti Vimal Jain Granthmala
Publication Year1935
Total Pages376
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy