________________
दति । ततो नृपदिष्टाः पुरुषा यावच्छिविकामुत्पाटयन्ति, अनान्तरे शक्रः शिविकाया दाक्षिणात्यामुपरितन बाहां, ईशानेन्द्र उताराहामुपरितनीं बाहां, चमरेन्द्रो दक्षिणात्यामधस्तनीं बाहां, बलीन्द्र उत्तराहामधस्तनीं बाहां, शेषाञ्चतुर्निकायदेवेन्द्राश्च यथार्ह तां उत्पाटयन्ति, ततः शक्रेशानवर्जास्तामुहन्ति, शक्रेशानी तु चामराभ्यां वीजयतः ।
'जाव य कुंडग्गामो, जाव य देवाण भवणआवासा । देवेहिं अ देवीहि अ, अविरहिअं संचरन्तेहिं १ वणखण्डं व कुसुमिअं, पउमसरो वा जहा सरयकाले । सोहइ कुसुमभरेणं, इय गयणतलं सुरगणेहिं२ वरपड़ह-भेरि-झल्लरि-दुन्दुहि संख - सहिएहिं तूरिएहिं । धरणियले गयणयले तूरनिनाओ परमरम्मो ३ व्यवसायान् व्यापारांश्च, मुक्त्वा द्रष्टुं ययुर्नराः। स्त्रियो निजं निजं कर्म, त्यक्त्वागुः कौतुकोत्सुकाः ४ श्रुत्वा वाद्यौघनिर्घोषं, स्त्रियोऽभूवन सुविह्वलाः । चकुर्नानाविधाश्चेष्टाः सर्वेषां विस्मयप्रदाः॥५॥
यथा— कस्तुर्या नेत्रे, अञ्जनेन गण्डौ, काश्या कण्ठे, हारैः कटिं, नूपुराभ्यां करौ, कङ्कणाभ्यां पादौ, चन्दनद्रवैरङ्घ्रितले, अलक्तकरसैर्वपुभूषयन्ति । तथाग्रहणं रुदतां पथि पर - बालानां निजकसम्भ्रमाञ्चक्रुः। घाटपटीशाटकयो - र्विपरीततया च परिधानं ६ शिथिलपरिधानबन्धं, गाढं कर्तुं न शक्नुवन्त्यस्ताः । वातोड्डीनशिरोंऽशुको वधूजनोऽजनि कुमारी व७
३२