SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ प्रदीपिका ७६ न च प्रासुकाम्बुनाऽपि सर्वांगस्नानं चक्रे, किन्तु लोकस्थित्या हस्ताघ्रिमुखक्षालनप्रासुकाम्भसैव चक्रे, दीक्षोत्सवे तु सचित्ताम्बुनापि सस्नौ । ततः प्रभृति ब्रह्मचर्य तु यावजीवमेव पालितवांश्च । इह ) यदा प्रभुर्जातस्तदैवं चतुर्दशस्वप्नरेष भावी चक्रीति लोकख्याति श्रुत्वा स्वस्वमातापितृभिः श्रेणिकचण्डपद्योताद्याः सुताः प्रभुसेवायै प्रेषिताः, प्रभौ च घोरानुष्ठानपरे नायं चक्रीति स्वस्वगृहं ययुः। गुरुमहत्तरेएहित्ति गुरुणा-ज्येष्ठभ्रात्रा-नन्दिवर्डनेन महत्तरकैश्च राज्यप्रधानैरभ्यनुज्ञातो व्रतार्थ || दत्तानुमतिः प्रभुः समासप्रतिज्ञः 'नाहं समणो होहं अम्मापिरंभ जीवंते' इति गर्भस्थकृताभिग्रह- IN स्याष्टाविंशत्या वषैः नन्दिवर्द्धनोपरोधाभिग्रहस्य च वर्षद्वयेन पारगमनात् । पुणरवि लोअंत्तिएहिं पुनरपीति-विशेषद्योतने, एकं तावत्स्वयं समाप्तप्रतिज्ञो विशेषतश्च लोकान्तिकदेवबोंधित इति गम्यं, लोकान्ते भवा लोकान्तिका ब्रह्मलोकवासिन एकान्तसम्यगदृष्टयः एव, ते च नवधा, तद्यथा'सारस्सय १ माइच्चा २ वही३ वरुणाय ४ गद्दतोया य ५। तुसिआ ६ अव्वाबाहा ७ अग्गिच्चा ८चेव रिहाय९ ॥१॥ यद्यपि प्रभुः स्वयंबुद्धस्तथापि जीतं-अवश्यमाचरणीयं कल्पितं यैस्ते जीतकल्पिताः, जीतेन वाऽवश्यंभावेन कल्प-इति कर्तव्यता जीतकल्पः, स एषामस्तीति जीतकल्पिकास्तैः जीतकल्पितेर्जीत कल्पिकैर्वा विभक्तिव्यत्ययात्ते लोकान्तिकदेवाः-ताहिं इटाहिं......जाव वग्गुहिं प्राग्वत्, व्याख्याताभिर्वाग्भिः अनवरतं प्रभुं अभिनन्दयतः-समृद्धिमन्तमाचाक्षाणा अभिष्टुवन्तश्च गुणोत्कीर्तनेनैवमवादिषुर्व्यज्ञपयन् ॥११०॥
SR No.600393
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorMafatlal Zaverchand Gandhi
PublisherMukti Vimal Jain Granthmala
Publication Year1935
Total Pages376
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy