________________
प्रदीपिका
समणे भगवं महावीरे दक्खे दक्खपइन्ने पडिरूवे अल्लीणे भदए विणीए नाए नायपुत्ते नायकुलचन्दे विदहे विदेहदिन्ने विदेहजच्चे विदेहसूमाले तीसं वासाई विदेहंसि कटु अम्मापिऊहिं देवत्तगएहिं गुरुमहत्तरएहिं अब्भणुण्णाए सम्मत्तपइन्ने पुणरवि लोयंतिएहिं जीयकप्पिएहिं देवहिं ताहिं इट्ठाहिं जाव वग्गृहि अणवरयं अभिनन्दमाणा य अभिथुवमाणा य एवं वयासी ॥ ११०॥
समणे इत्यादितो......वयासीत्यन्तम् । तत्र दक्षः कलासु, दक्षाः-प्रतिज्ञातनिर्वाहकतया पट्वी ४ प्रतिज्ञा यस्य । प्रतिरुपः-तत्तद्गुणसङ्क्रमणे दर्पणत्वात् विशिष्टरूपो वा, आलीनः-सर्वगुणाश्लिष्टः गुप्तेन्द्रियो वा, भद्रका-सरलः, भद्रो-वृषभस्तद्वद्गच्छतीति भद्रगो वा भद्रदो वा सर्वकल्याणदाथित्वात । विनीतो-विनयवान् सुक्षितो वा जितेन्द्रियो वा । ज्ञातः-प्रख्यातः ज्ञातो वा ज्ञातवंशत्वात्, ज्ञात:-सिद्धार्थस्तत्पुत्रः ज्ञातपुत्रः, न च पुत्रमात्रेण काचित्सिद्धिः स्यादित्याह-ज्ञातकुलचन्द्रः, विदेहो विशिष्टदेहः-आद्यसंहननसंस्थानवत्त्वात् , यहा 'दिहीक् उपलेपे' विगतो देहो लेपो अस्मान्निल्लपो भोगेष्वपि वैराग्यवत्त्वात् । विदेहदिन्ना-त्रिशला तदपत्यं विदेहदिन्न:, तस्या एवौरसपुत्रत्वमाह'विदेहजच'भीमो-भीमसेन इति न्यायात् विदेहा-त्रिसला तस्यां जाताऽर्चा वपुर्यस्य स विदह