________________
यद्वा-गर्जति शरदि न वर्षति,वर्षति वर्षासु निस्वनो मेघः।
प्रदीपिका नीचो वदति न कुरुते,नवदति साधु करोत्येव ॥५॥ | असारस्य पदार्थस्य, प्रायेणाडम्बरो महान् । नहि स्वर्णे ध्वनिस्तादृग् यादृक् कांस्ये प्रजायते॥६॥ || ___ अथ वीरं विप्रासने निवेश्य विबन्मन: सन्देहान् हरिः प्रपच्छ, तदनु वीरस्तत्सन्देहान् वभञ्ज । | पुनरपीन्द्र प्रोवाच-मनुष्यमानं शिशुरेष विप्र ! नाशङ्कनीयो भवता स्वचित्ते ।
विश्वत्रयी नायक एष वीरो, जिनेश्वरो वाङ्मयपारदृश्वा ॥ ७॥ तदनु जैनेन्द्रं व्याकरणं जज्ञेशास्त्राण्येतावन्त्यपि लघुना वीरेणकथमधितानिाइतिजनमानससंशय-विच्छित्यै हरिरवोचदिदं ॥८॥
यद्वत्सहस्रकरशुभ्रकरप्रदीपा, ज्योतिश्चयैःप्रसृमरैःसहिताःसदैव।
आगर्भतः सततसर्वगुणस्तथैव, ज्ञानत्रयणे सहितो जिनवर्द्धमानः॥९॥ इत्यायुक्त्वा शक्रः स्वस्थानं गतः, श्रीवीरः सर्वज्ञातक्षत्रियैर्युतः स्वसौधमगात् ॥ १०८॥