________________
प्रवर्तनात्, अतो महावीर इति नाम देवैः कृतं तश्चैवं-“अथ प्रभुवईमानः किश्चिदुनाष्टवार्षिकः कुमारैः | प्रदीपिका सह पुराढहिरामलकीक्रीडां चक्रे। तदा शक्रः सुरसहसीति[सुरसभायां]स्तौति स्म, यदयं बाल्ये सुरैरपि । भापयितुमशक्यः । ततः कोऽप्यश्रद्धानः सुरः सर्पोभूय क्रीडाक्षमवेष्टयत् । तदा तदर्शन भीतेष्वान्येषु कुमारेषु नष्टेषु प्रभुस्तं रज्जुमिवोत्क्षिप्य दूरे चिक्षेप । कुमाराः पुनरप्यागुः क्रीडितुम्, सोऽपि सुरो | डिम्भीभूय जिनेन सह चिक्रीडास च प्रभुणा जितः, तत्र चायं पण:-'यो जयेत् स पराजितपृष्ठमारोहति
तेन तत्पृष्ठे भगवान् आरुरोह । ततः स सुरः ससतालमानं यावत् वद्धितः, ततो जिनेन मुष्टया मुर्ध्नि हतः Ka सन् सङ्कुचितः । ततो देवेन्द्रवर्णितं जिनधैर्य सत्यं ज्ञात्वा स सुरः प्रभुं क्षामयित्वा च स्वर्ग प्राप । ततः | तुष्टः शक्रः प्रभोः 'वीर' इति नाम कृतवान् " ॥ इति आमलकीक्रीडा॥ अहतं अम्मापियरो, जाणित्ता अहिअअटुवासंतु। कयकोउअअलंकारं लेहाअरिअस्स उवणिति ॥१॥
तथाहि-"किञ्चिदधिकाष्टवर्षस्य प्रभोर्लेखशालाकरणदिने भोजनवस्त्रालङ्कारायैः स्वजनान् पितरौ || सत्कुरुतः। तथा विद्वयोग्यं वस्त्रालङ्कारनालिकेरादि, तथा लेखशालिकानां दानार्थ पुगीफल-शृङ्गाटकखर्जुर-चारुषीज-द्राक्षादि-सुखासिकावृन्दं तथा सौवर्णरत्नरौप्यादिमषीपात्रलेखनिकापट्टिकादिवस्तूनि, वाग्देवीप्रतिमां च सज्जीकुरुतः। ततः तीर्थोदकैः कुलवृद्धाः स्वजनाः प्रभु स्नपयन्ति। दिव्यवस्त्राभरणाचैरलंकुर्वन्ति, गजे समारोपयन्ति च प्रभोः शीर्षे छत्राणि धरन्ति, श्वेतचामराणि वीजयन्ति । वाद्य- ७३