________________
स्थापयेत् । तत्पुरतः सपुत्रां मातरं चन्द्रोदये चन्द्रसन्मुखं 'नीत्वा "ओ अहं चन्द्रोऽसि' [निशाकरोऽसि नक्षत्रपतिरसि ] सुधाकरोऽसि [ औषधीगर्भोऽसि ] अस्य कुलस्य ऋद्धिं वृद्धिं कुरु कुरु' इत्यादि चन्द्रमन्त्रमुच्चरन् तयोश्चन्द्र दर्शयेत् । सपुत्रा माता गुरुं नमति गुरुवाशीर्वाद दत्ते । अथ तस्मिन्नेव दिने प्रातः स्वर्णमयीं ताम्रमयी वा सूर्यमूर्ति पूर्वविधिना संस्थाप्य "ओ अर्ह सूर्योऽसि दिनकरोऽसि' इत्यादिमन्त्रमुच्चरन्ति"शेषविधिः प्राग्वत् । सम्पति तत्र शिशोदर्पणो दयते । धर्मेण-कुलधर्मेण लोकधर्मण वा षष्टया रात्री जागरणं धर्मजागरिका ताम्।निवत्तितेऽतिक्रान्ते अशुचीनां-अशोचवतां जन्मकर्मणां-नालच्छेदादीनां यत्करणं । यस्मिन् सम्पाप्ते द्वादशख्ये दिवसे यहा द्वारशानामहानां समाहारो द्वादशाहं तस्य दिवसो येन द्वादशाहः पूर्यते, उपस्कारयत:-पितरौ रसवती निष्पादयतः। मित्राणिसुहृदः, ज्ञातयः-सजातीया,मातापितृभ्रात्रादयः, निजका-पुत्रादयः, स्वजनाः-पितृव्यादयः,सम्बन्धिनःसुतसुतादीनां श्वसुरादयः, परिजनो-दासदासादिः, ज्ञातक्षत्रियाः-ऋषभस्वामिसजातीयाः । आ-इषत् | स्वादयन्तौ बहुत्यजन्ताविक्षुखण्डादेरिव, विशेषेण स्वादयन्तौ अल्पं त्यजन्तौ खर्जूरादेरिव, परिसामस्त्येन भुञ्जानौ-अल्पमप्यत्यजन्तौ भोज्यम्, परिभाजयन्तौ अन्येभ्यो यच्छन्तौ स्वायविशेषं मातापितराविति प्रक्रमः ॥ १०४॥ जिमिय भुत्तुत्तरागया वि अणं समाणा आयंता चोक्खा परमसुइभुया तं मित्त-नाइ-नियग-सयण संबंधि-परिजणं नायए खत्तिए य विउलेणं पुष्फ-वत्थ-गंध-मल्लालंकारणं सक्कारेन्ति सम्माणेन्ति |
|