________________
महत्यपराधेऽल्पं राजग्राह्यं द्रव्यं, दण्डेन निवृत्तं दण्डिमं, कुदण्डेन निवृत्तं कुदण्डिम इषद्दण्ड इत्यर्थः || तन्नास्ति यस्यां । न धरिमंऋणं यस्यां ऋणमुत्कलनात्, गणिकावरैः-विलासिनीप्रधानैः, नाटकीयैःनाटकप्रतिवद्धपात्रः कलितां, अगणिअत्ति पाठे तु-अगणितैः-प्रतिस्थानं भावादसंख्यैर्वरैः-नाटकीयैः कलितां । अनेकतालाचरानुचरितां-प्रेक्षाकारिविशेषसेवितां । अनुध्धुता-आनुरूप्येण वादनार्थमुत्क्षिप्ता-अनुडुता वा वादनार्थमेव वादकैरत्यक्ता मृदङ्गा यस्यां । अम्लानानि-माल्यदामानि पुष्पमाला यस्यां । प्रमुदितो-हृष्टः प्रकीडितश्च-क्रीडितुमारब्धः सह पुरजनेन जानपदो-जनपदवासिलोको यस्यां । दशदिवसान यावस्थितो कुलमर्यादायां पतिता-आगता या पुत्रजन्मोत्सवसम्बन्धिनी व‘पनिका प्रक्रिया ताम् ॥ १०२ ॥ तएणं सिद्धत्थे राया दसाहियाए हिइवडियाए वट्टमाणीए, सइए असाहस्सिए अ, सयसाहस्सिए य, जाए य, दाए अ, भाए अ, दलमाणे अ, दवावमाणे अ, सइए अ, साहस्सिए अ, सयसाहस्सिए अ, लंभे पडिच्छमाणे अ पडिच्छावेमाणे अ एवं वा विहरइ ॥ १० ॥
तएणमित्यादितो..........विहरईत्यन्तम् । तत्र दशाहिकायां-दशदिवसमानायां, शतिकान्-शतप्रमाणान् एवमग्रेऽपि, यागान्-देवपूजा, अत्र देवशब्देन जिनप्रतिमा ज्ञेया, यतः प्रभुमातापित्रोः-श्रीपार्श्वनाथापत्यत्वेन श्रमणोपासकत्वादान्याभिधेयत्वासम्भवः, । दायान्-पर्वदिनादौ दानानि, भागान-लब्ध
२८