SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ कालपा ण्डितं । लाइअं-छगणादिना भूमौ लेपन, उल्लोइअं-सेटिकादिना कुटयादौ धवलनं ताभ्यां महितमिव- | प्रदीपिका पूजितमिव ते एव वा महितं-पूजनं यत्र । गोशीर्षस्य-चन्दनविशेषस्य,सरसस्य-प्रत्यग्रस्य,रक्तचन्दनस्य- IN चन्दनविशेषस्यैव दर्दरस्य (दुर्दुरस्य) दर्दराभिधाद्रिजातश्रीखण्डस्य दत्ता-न्यस्ताः पञ्चाङ्गुलयस्तला हस्तका यत्राउपचिता-उपनिहिता गृहान्तः कृतचतुष्केषु चन्दनकलशा-माङ्गल्यघटा यत्राचन्दनघटा वन्दनघटाःसुकृताः तोरणानि च प्रतिद्वारं द्वारस्य द्वारस्य देशभागेषु यत्र । यदा उपचिता-निवेशिता चन्दनघटाश्च सुकततोरणानि च द्वारदेशभागं द्वारदेशभागं प्रति यत्र । देशभागश्च देश एव-आसक्तो भूमिलग्नः, उत्सक्तश्चोपरिलग्नः, विपुलो-विस्तीर्णो, वृत्तो-वर्तुलः वग्यारिअत्ति-प्रलम्वितः पुष्पगृहाकारो माल्यदाम्नां-पुष्पमालानां कलापः समूहो यत्र । पञ्चवर्णाः सरसः सुरभयो येषु मुक्ताः-करप्रेरिताः पुष्पपुत्रास्तैर्य-उपचारः पूजा भूमेस्तेन कलितं । कालेन्यादि प्राग्वत् । नटा-नाटककारः, नर्तका ये स्वयं नृत्यन्ति, जल्ला-वरत्राः खेलकाः, मल्ला-भुजयुद्धकारिणः, मुष्टिका-मल्ला एव ये मुष्ठिभिः प्रहरन्ति, विडम्बका-विदूषका वेलम्बका वाये मुखविकारमुत्प्लुत्योत्प्लुत्य नृत्यन्ति, कथका:-सरसकथावक्तारः, पठकाः-सुक्तादीनां, पवग इति पाठे तु प्लवका-ये जम्मादिना गर्तादिकं उत्प्लवन्ते नद्यादिकं तरन्तिवा, लासका-ये रासान् ददति, आरक्षकास्तलवराः, आइक्खग त्ति पाठे तु आख्यायकाः-शुभाशुभयोः कथकाः, लडा वंशानखेलकाः, (ससा) मलाः-चित्रफलकहस्ताः, भिक्षाका-गौरीपुत्रकाः
SR No.600393
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorMafatlal Zaverchand Gandhi
PublisherMukti Vimal Jain Granthmala
Publication Year1935
Total Pages376
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy