________________
कुण्डले क्षोमयुग्मं चो-च्छीर्षे मुक्त्वा हरिर्व्यधात् । श्रीदामरत्नदामाढ्य - मुल्लोचे स्वर्णकन्दुकम् ॥ ४१ ॥ द्वात्रिंशद्रत्नरैरूप्य - कोटिष्टि विरच्य सः । वाढमाघोषयामासे - ति सुरैराभियोगिकैः ॥ ४२ ॥ स्वामिनः स्वामिमातुञ्च, करिष्यत्यशुभं मनः । सप्तधाऽऽर्यमञ्जरीव, शिरस्तस्य स्फुटिष्यति ॥ ४३ ॥ स्वाम्यङ्गुष्ठेऽमृतं न्यस्य, स्वामिजन्मोत्सवं सुराः । नन्दीश्वरेऽष्टाहिकां च कृत्वा जग्मुर्यथाक्रमम् ॥ ४४ ॥ इति श्रीवीर जन्मोत्सवे देवदेवीकृते सति यज्जातं तदाह- ॥९७॥
जं स्यणि चणं समणे भगवं महावीरे जाए तं स्यणिं च णं बहवे वेसमणकुंडधारीतिरि
जंभगा देवा सिद्धत्थरायभवणंसि हिरण्णवासं च, सुवण्णवासं च, वयरवासं च, वत्थवासं च, आभरणवासं च, पत्तवासं च, पुप्फवासं च, फलवासं च, बीयवासं च, मल्लवासं च, गंधवासं च, चुन्नवासं च, वण्णवासं च, वसुहावासं च वासिं ॥ ९८ ॥
जं स्यणिमित्यादितो.. .. वासिंसुति यावत् । तत्र हिरण्यं रूप्यं, वर्षमल्पवृष्टिः, वृष्टिस्तु महती । माल्यं - प्रथितपुष्पाणि, गन्धाः - कोष्ठपुटपाकाः । चूर्णो - गन्धद्रव्यसम्बन्धी, वर्णश्चन्दनं वसूनां रत्नानां धाराः - श्रेण्यस्तासां वर्ष वर्षन्ति शेषं स्पष्टम् ।
अत्रान्तरे प्रियभाषिता चेटी नृपं वर्द्धापयति यथा - "पिअट्टयाए पिअं निवेएमो पिअं मे भवउ ।