________________
प्रदीपिका
भद्रशालनन्दनवनादीनां सिद्धार्थपुष्पतुम्बरगन्धान सावौषधीधाभियोगिकसुरैरच्युतेन्द्रःआनाययत् ।
"क्षीरनीरभृतैर्वक्षः-स्थलस्थैत्रिदशा बधुः । संसारौघं तरोतुं किम् , धृतकुम्भा इव स्फुटम् ॥ २९ ॥ संशयं त्रिदशेशस्य, मत्वा बीरोऽमराचलम् । वामाङ्गुष्ठाङ्गसम्पर्कात् , समन्तादप्यचीचलत् ॥ ३० ॥ कम्पमाने गिरौ तत्र, चकम्पेऽथ वसुन्धरा । श्रृङ्गाणि सर्वतः पेतु-श्रुक्षुभुः सागरा अपि ॥ ३१ ॥ ब्रह्माण्डस्फोटसदृशे, शब्दाद्वैते च विष्टपे । रुष्टः शक्रोऽवधेत्विा , क्षमयामास तीर्थपम् ॥ ३२ ॥ सङ्ख्यातीताईतां मध्ये, स्पृष्टः केनापि नाघ्रिणा । मेरुः कम्पमिषादित्या-नन्दादिव ननौं सः ॥ ३३॥ अच्युतेन्द्रस्तत्र पूर्व विदधात्यभिषेचनम् । ततोऽनुपरिपाटीतो, यावचन्द्रार्यमादयः ॥ ३४ ॥ चतुर्वृषभरूपाणि, शक्रः कृत्वा ततः स्वयम् । श्रृङ्गाष्टकक्षरत्क्षीरे-रकरोदभिषेचनम् ॥ ३५ ॥ समालपदीपं ते, विधायाऽऽरात्रिकं पुनः । सनृत्यगीतवाद्यादि, व्यधुर्विविधमुत्सवम् ॥ ३६ ॥ तथा-"उन्मृज्य गन्धकाषाय्या, दिव्यया हरिविभोः। विलिप्य चन्दनाघेश्व, पुष्पायेस्तमपूजयत् ॥ ३७॥ दर्पणो १ वर्द्धमानश्च २, कलशो ३ मीनयोयुगम् ४।श्रीवत्स ५स्वस्तिके ६ नन्या--वर्त ७ भद्रासने इति॥३८॥
शक्रः स्वामिपुरो रत्न-पट्टके रूप्यतण्डुलैः । आलिख्य मङ्गलान्यष्टा-विति स्तोतुं मचक्रमे ॥ ३९॥" इति श्लोकत्रयी त्रिषष्टीयचरित्रे
शक्रोऽथ जिनमानीय, चिमुच्याम्बान्तिके ततः। सञ्जहार प्रतिबिम्बा-वस्वापिन्यो स्वशक्तितः ॥४०॥