SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ नन्दीश्वरे विमानानि, सक्षिप्यागात्सुराधिपः। जिनेन्द्रं च जिनाम्नां च त्रिः पादक्षिगयत्ततः ॥१७॥ वन्दित्वा नमस्यित्वा चे-त्येवं देवेश्वरोऽवदत् । नमोऽस्तु ते रत्नकुति-धारिके ! विश्वदीपिके ! ॥१८॥ अहं शक्रोऽस्मि देवेन्द्रः, कल्पादाद्यादिहागमम् । प्रभोरन्तिमदेवस्य, करिष्ये जननोत्सवम् ॥ १९ ॥ भेतव्यं देवि ! तन्नैवे-त्युक्त्वाऽवस्वापिनीं ददौ । कृत्वा जिनप्रतिविम्बं, जिनाम्बासन्निधौ न्यधात ॥२०॥ भगवन्तं तीर्थकर, गृहीत्वा करसम्पुटे । विचक्रे पञ्चधा रूपं, सर्वश्रेयोऽर्थिकः स्वयम् ॥ २१ ॥ एको गृहीततीर्थेशः, पार्थे द्वौ चात्तचामरौ । एको गृहीतातपत्रः एको वज्रधरः पुनः ॥ २२ ॥ अग्रगः पृष्ठगं स्तौति पृष्ठस्थोऽप्यग्रगं पुनः । नेत्रे पश्चात्समीहन्ते, केचनातनाः सुराः ॥२३॥ शक्रः सुमेरुश्रृगस्थं, गत्वाऽथो पाण्डुकं वनम् । मेरुचूलादक्षिणेना-तिपाण्डुकम्बलासने ॥२४॥ कृत्वोत्सङ्गे जिनं पूर्वा-भिमुखोऽसौ निषीदति । समस्ता अपि देवेन्द्राः, स्वामिपादान्तमैयरुः ॥२५॥ दश वैमानिकाः विंशतिर्भवनपतयः, द्वात्रिंशद्व्यन्तराः, द्वौ ज्योतिष्को, इति चतुःषष्टिरिन्द्राणाम् । सौवर्णा राजता रात्नाः, स्वर्णरूप्यमया अपि । स्वर्णरत्नमयाश्चापि, रूप्यरत्नमया अपि ॥२६॥ स्वर्णरूप्यरत्नमया, अपि मृत्स्नामया अपि । कुम्भाः प्रत्येकमष्टाढ्य, सहस्रं योजनाननाः ॥२७॥ पणवीसजोअणुत्तुंगो, बारस जोअणाई वित्यारो। जोअणमेगं नालुअ, एगकोडी अ सद्विलक्खाई ॥२८॥ एव भृङ्गारदर्पणरत्नकरण्डकपुष्पचङ्गेरिकादिपुजोपकरणानि प्रत्येकमष्टधा अष्टोत्तरसहस्रमानानि च कुम्भवत्.तथा-मागधादीनां मृदं,गङ्गादीनां जलं,पद्महृदादीनां जलं पद्मानि च,शुलहिमववर्षधरवैतात्य
SR No.600393
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorMafatlal Zaverchand Gandhi
PublisherMukti Vimal Jain Granthmala
Publication Year1935
Total Pages376
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy