SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ कल्प ६६ वयैकयोजनां घण्टां सुघोषां निगमैषिणा । अवादयततो घण्टा - रेणुः सर्वविमानगाः ॥ २ ॥ शक्रादेशं ततः सोच्चैः सुरेभ्यो ज्ञापयत्स्वयम् । तेन प्रमुदिता देवाञ्चलनोपक्रमं व्यधुः ॥ ३ ॥ पालकाख्यामरकृतं लक्षयोजनसम्मितम् विमानं पालकं नामा-ध्यारोहत्रिदशेश्वरः ॥ ४ ॥ पुरतोऽग्रमहिष्योऽष्टौ वामे सामानिकाः (८४०००) सुराः । दक्षिणे त्रिसभा (४२०००) देवाः सप्तानिकानि पृष्ठतः ॥५॥ अन्यैरपि धनैर्देवै - वृतः सिंहासनस्थितः । गीयमानगुणोऽचाली-दपरेऽप्यमरास्ततः ॥ ६ ॥ देवेन्द्रशासनात्केचित्केचिन्मित्रानुवर्त्तनात् । पत्नीभिः प्रेरिताः केचित् केचिदात्मीयभावतः ॥ ७ ॥ केsपि कौतुकः केऽपि, विस्मयात्केऽपि भक्तितः । चेलुरेवं सुराः सर्वे, विविधैर्वाहनैर्युताः ॥ ८ ॥ विविधैस्तू निघोषैर्घण्टानां कणितैरपि । कोलाहलेन देवानां शब्दाद्वैतं तदाऽजनि ॥। ९ ॥ सिंहस्थो वक्ति हस्तिस्थं, दूरे स्वीयं गजं कुरु । हनिष्यत्यन्यथा नूनं, दूर्द्धरो मम केसरी ॥ १० ॥ वाजिस्थं कासरारूढो, गरुडस्यो भुजङ्गगम् । छागस्थं चित्रकस्थोऽथ, वदन्त्येवं तदादरात् ॥ ११ ॥ सुराणां कोटिकोटीभि र्विमानैर्वाहनैर्घनैः । विस्तीर्णेोऽपि नभोमार्गोऽतिसङ्कीर्णस्तदाभवत् ॥ १२ ॥ मित्रं केऽपि परित्यज्य, दक्षत्वेनाग्रतो ययुः । प्रतीक्षस्व क्षणं भ्रात-ममित्रेत्यपरेऽवदन् ॥ १३ ॥ केचिद्वदन्ति भो देवाः ! सङ्कीर्णाः पर्ववासराः । भवन्त्येवंविधा नूनं, तस्मान्मानं विधत्त भोः ॥ १४ ॥ नभस्यागच्छतां तेषां शीर्षे चन्द्रकरैः स्थितैः । शोभन्ते निर्जरास्तत्र, सजरा इव निर्भरं ॥ १५ ॥ मस्तके घटिकाकाराः, कण्ठे ग्रैवेयकोपमाः । स्वेदविन्दुसमा देहे, सुराणां तारका बभ्रुः ॥ १६ ॥ प्रदीपिका ६६
SR No.600393
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorMafatlal Zaverchand Gandhi
PublisherMukti Vimal Jain Granthmala
Publication Year1935
Total Pages376
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy