SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ प्रधाने चन्द्रबलेऽर्थान्नृपादीनां यहां तदा रविर्मेषस्थत्वात प्रभोश्च मध्यरात्रे जातत्वाच्च मकरलग्नं । प्रथमायां चान्द्रयां होरायां 'इन्डर्कयोः समे, इत्युक्तेः, अन्यथा वा प्राज्ञैर्भाव्यं । सौम्यासु रजोवृष्टाभावात् वितिमिरासु सर्वत्रोद्योत भाषांत्, ज्योत्स्नया वा, विशुद्धासु उल्कापातदिग्दाहाद्यभा वात् । जयोऽस्त्येषु इति जयिकेषु-राजादीनां जयदायिषु सर्वशकुनेषु, प्रदक्षिणश्चासावनुकूलश्च प्रभोः प्रदक्षिणवाहित्वादनुकूलः, या प्रदक्षिण:- प्रदक्षिणावर्तत्वादनुकूलः - सुरभिशीतत्वात् भूमिसप्पिणिमृदुत्वात्, तादृशे मारुते प्रवातुमारब्धे निष्पन्ना- निष्पन्नसर्वसस्या मेदीनी यत्र तादृशे काले, प्रमुदिताः सुभिक्षस्थ्यादिना प्रक्रीडिता वसन्तोत्सवादिना क्रीडितुमारब्धास्ततो विशेषणकर्मधारयः, जनपदेषु जनपदवास्तव्य लोकेषु सत्सु । अरोगा अनाबाधा माता अरोगं- अनाबाधं दारकं प्रजाता सुषुवे “अचेतना अपि दिशः प्रसेदुर्मुदिता इव, वायवोऽपि सुखस्पर्शा मन्दं मन्दं ववुस्तदा " ॥१॥ उद्योतत्रिजगत्यासीत् दध्वान दिवि दुन्दुभिः । नारका अप्यमोदन्त भूरप्युच्छ्वासमासदत् ।। २ ।। ।। ९६॥ [ इति चतुर्थ व्याख्यानं ] [ अथ पञ्चमं व्याख्यानं 1 जं स्यणिं च णं समणे भगवं महावीरे जाए सा णं रयणा बहूहिं देवेहिं देवीहि य ओवयंतेहिं उप्पयंतेहिं य उप्पिंजलमाणभुया कहकहगभूया आणि हुत्था[क्वचित् उज्जोविआवि हुत्था ]॥९७॥ २५
SR No.600393
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorMafatlal Zaverchand Gandhi
PublisherMukti Vimal Jain Granthmala
Publication Year1935
Total Pages376
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy