________________
प्रदीपिका
गम्भे ! मडे मे से गन्भे! चुए मे से गम्भे ! गलिए में से गन्भे ! एस मे गम्भे पुब्बि एयइ, इयाणिं नो एयइ त्ति कुट्ट ओहयमणसंकप्पा चिंतासोगसागरं संप्पविट्ठा, करयलपल्हत्थमुही अट्टज्झाणोवगया भूमीगयदिठिया झियायइ, तं पि य सिद्धत्थरायवरभवणं उवरयमुइंग-तंती-तलताल-नाडइज्जजणमणुज्जं दीणविमणं विहरइ ॥ ९२॥
तएणं तीसे इत्यादितो.........विहरईत्यन्तम् । तत्र हडे-हृतो मम गर्भः केनचिद्देवादिना ? मृतः कालधर्म प्राप्तः ? च्युतः-सजीवपुद्गलपिण्डतापर्यायात्परिभ्रष्टः ? गलितो-द्रवतामापयक्षरितः ? चतुर्वपि पदेषु काका विकल्पप्रतिपत्तिः । एजति-कम्पते।ओहय-उपहतः-कालुष्यकलितो मनसि सङ्कल्पो यस्याः। चिन्तया-गर्भहरणादिध्यानेन यः शोकः स एव सागरस्तत्र सम्प्रविष्टा । करतले पर्यस्तं निवेशितं मुखं यया, आर्तध्यानोपगता, भूमिगतदृष्टिका-भूमिसम्मुखमेव वीक्षमाणा, किंकर्तव्यजडतया ध्यायति । तथाहि-.
यदि सत्यमिदं जज्ञे, गर्भस्यास्य कथञ्चन । तदा नुनमभाग्याई भूमौ निःपुण्यकाऽवधिः॥१॥ यद्वानह्यभाग्यस्य भवने चिन्तारत्नं तिष्ठति, न दुःस्थस्य गेहे निधिःप्रादुर्भवति, न च कल्पतरुर्मरुभूमौ प्ररोहति, नहि नि:पुण्यतृषितपुसां सुधापानेच्छा पूर्यात् । हा घिग् दैवं ! किं चक्रे तेन वक्रेण यन्समूलमुन्मूलितो मन्मनोरथतरुः, यबदू गृहीते दत्वाऽपि नेत्रे, उहालितं निधिरत्नं प्रदाय, मेरोः