SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ कल्प ५८ आवणेसुवा, देवकुलेसुवा, सभासु वा, पवासु वा, आरामेसु वा, उज्जाणेसु वा, वणेसु वा, वणसंडेसु वा, सुसाण-सुन्नागार-गिरि-कंदर संति-सेलो चट्ठाण-भवण-गिहेसु, वा संनिक्खित्ताईं चिट्ठेति ताई सिद्धत्थरायभवणंसि साहरंति ॥ ८८ ॥ जप्पभिइ च णमित्यादितो...... साहरंतीत्यन्तम् । तत्र वैश्रमणस्य कुण्डमायत्ततां धारयन्ति ये ते तिर्यग्लोकवासिनो जृम्भकास्तिर्यग्जृम्भकाः देवाः शक्रवचनेन शक्रेण वैश्रमणआदिष्टः तेन चैतेत्यर्थः । से- अथ पुरा - पूर्व प्रतिष्ठितत्वेन पुराणानि - चिरन्तनानि पुरापुराणानि महानिधानानि । प्रहीणाः स्वल्पीभूताः स्वामिनो येषां तानि।एवं सेक्तारः - सेचकाः धनक्षेसारः । प्रहीणसे तुकानि वा सेतुः मार्गः । प्रहीणं विरलीभूतं मानुषं गोत्रागारं येषां तत्र गोत्रं - धनस्वामिनोऽन्वयो, अगारं गृह, एवमुच्छिन्नाः- सर्वथाक्षीणाः स्वामिनो येषामित्यादि प्राग्वत् । ग्रामाः - कर। दिगम्याः आकराः - स्वर्णाद्युत्पत्तिभूमयः, नैतेषु करोऽस्तीति नगराणि, खेटानि - धूलोप्राकारोपेतानि, कर्बटानि-कुनगराणि, मडम्बानि - सर्वतोऽर्डयोज - नात्परातोsवस्थितग्रामाणि, द्रोणमुखानि-यत्र जलस्थलपाथौ स्तः । पत्तनानि येषु जलस्थलपथयारन्यतरेण पर्याहारप्रवेशः, आश्रमाः - तीर्थमुनिस्थानानि, संवाहाः - समभूमौ कृषिं कृत्वा येषु दुर्गभूमिषु धान्यानि कृषीबलाः संवहन्ति रक्षार्थ, सन्निवेशा:- सार्थकटकादेस्ततो द्वन्द्वस्तेषु । शृङ्गाटकं शृङ्गाटकाकारं त्रिकोणं स्थानं त्रिकं यत्र रथ्यात्रयं मिलति । चतुष्कं - पत्र रथ्याचतुष्कं मिलति । चत्वरं बहुरथ्यापातस्थानं, चतुर्मुखं प्रदीपिका ५८
SR No.600393
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorMafatlal Zaverchand Gandhi
PublisherMukti Vimal Jain Granthmala
Publication Year1935
Total Pages376
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy