________________
इष्टं दृष्ट्वा स्वप्नं, न सुप्यते नाप्यते फलं तस्य । नेया निशापि सुधिया, जिनराजस्तवन संस्तवतः॥९॥ स्वप्नमनिष्टं दृष्ट्वा,सुप्यात् पुनरपि निशामवाप्यापि नैतत् कथ्यं कथमपि, केषांचित् फलति न स तस्मात् पूर्वमनिष्टं दृष्ट्वा, स्वप्नं यः प्रेक्षते शुभं पश्चात् । स तु फलदस्तस्य भवेत्, द्रष्टव्यं तद्वादिष्टेऽपि ११ यस्तु पश्यति स्वप्नान्तर्नृपतिं कुञ्जरं हयं । स्वर्ण वृषभं गां च कुंटुम्बं तस्य वर्द्धते ॥ १२ ॥ ताम्बुलदधिवस्त्रैश्च शङ्खमौक्तिकचन्दनैः । जातिवत्कुल कुन्दैश्च दृष्टैर्धान्यधनागमः ॥ १३ ॥ आरुढः शुभ्रमिभं, नदीतटे शालिभोजनं कुरुते । भुङ्क्ते भूमीमखिलां, स जातिहीनोऽपि धर्मधनः १४ कृष्णं कृत्स्नमशस्तं मुक्त्वा गोवाजिराजगजदेवान्। सकलं शुक्लं च शुभं, त्यक्त्वा कर्पासलवणादीन् १५ देवस्य प्रतिमाया यात्रास्नपनोपहारपूजादीन् । यो विदधाति स्वप्ने तस्य भवेत् सर्वतो वृद्धिः १६ दुःस्वप्ने देवगुरून्, पूजयति करोति शक्तितश्च तपः । सततं धर्मरतानां दुःस्वप्नो भवति सुस्वप्नो १७
" इत्थी वा पुरिसो वा सुविणंते एगं महंतं खीरकुंभं वा, (दहिकुंभं वा,) घयकुंभं वा, महुकुंभं वा, पासमाणे पासह उपाडेमाणे उप्पाडेह उप्पाडिअमिति अप्पाणं मन्नह तक्खणमेव बुज्झइ, तेणेव भवग्गहणेणं सिज्झइ जाव अंतं करेइ । इत्थी वा पुरिसो वा सुविणंते एवं हिरण्णरासिं वा सुवण्ण
२०