SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ सिद्धार्थकः प्रधानो मङ्गलार्थमुपचार:-पूजा येषु 'प्राकृतत्वात् कृतशब्दस्य मध्ये निपातः। दूरं-विप्रकृष्टं सामन्त-समीपम् तयोरभावे नाऽतिदूरे नातिसमीपे इत्यर्थः यवनिकामाञ्छायतीति सम्बन्धः। नानामणिरत्न मण्डिता, अधिकं प्रेक्षणीयाम् , महर्चा चाऽसौ वरे पत्तने-वस्त्रोत्पत्तिस्थाने उद्गता च व्युता वरपहनादा-प्रधानवेष्टनकादुद्गता-निर्गता, सूक्ष्मपट्टसूत्रमयो भक्तिशतचित्रस्नानलातको यस्यां, इहामृगादि प्राग्वत् । आस्थानशालायां अभ्यन्तरभागतिनीम् यवनिकाम्-काण्डपटीम आकर्षयत्यायताम् कारयतीत्यर्थः । नाणा प्राग्वत् । आस्तरकेण प्रतीतेन मृदुमसूरकेन चावस्तृतम् , श्वेतवस्त्रेण प्रत्यवस्तृतम्-उपर्याच्छादितम् सुमृदुकम्-कोमलमतएवाङ्गस्य सुखः-सुखकारी स्पर्शो यस्य । विशिष्टं शोभनम् ॥ ६४॥ खिप्पामेव भो देवाणुप्पिया ! अढंगमहानिमित्तसुत्तत्थधारए विविहसत्थकुसले सुविणलक्खणपाढए सद्दावेह, नएणं ते कोडंबियपुरिसा सिद्धत्थेणं रना एवं वुत्ता समाणा हट्ठतुट्ठ जाव हियया करयल जाव पडिसुणंति पाडसुणित्ता ॥ ६५ ॥ खिप्पामेवेत्यादितः...........पडिसुणित्तेत्यन्तम् । अष्टाङ्गमष्टावयवम्अङ्गं स्वप्नं स्वरं चैव भौमं व्यञ्जनलक्षणे, उत्पादमंतरिक्षं च निमत्तं स्मृतमष्टधा ॥१॥ इत्यङ्गायष्टधा, यन्महानिमित्तं परोक्षार्थप्रतिपत्तिकारणज्ञापकं शास्त्र तस्य यो सूत्रार्थों तो धारयन्ति
SR No.600393
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorMafatlal Zaverchand Gandhi
PublisherMukti Vimal Jain Granthmala
Publication Year1935
Total Pages376
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy