________________
इति सकोरिण्टानि माल्यदामानि - पुष्पस्रजो यत्र, माल्यानि पुष्पाणि दामानि - मालाः । छत्रेण प्रियमाणेन श्वेतचामरैरुध्यमानैः ' चामरस्य क्लीवत्वे स्त्रीत्वं गौडमतेन ' मङ्गलभूता जयशब्दः कृतो जनेनालोके-दर्शने यस्य । अनेके ये गणनायकाः- प्रकृतिमहत्तराः, दण्डनायकाः- तन्त्रपालाः, राजानो माण्डलिकाः, ईश्वरा - युवराजानोऽणिमादियुक्ता वा, तलवरा - नृपदसपट्टबन्धाः, माडम्बिका:- छिन्नमंडबाधिपाः, कौटुम्बिकाः - कतिपयकुटुम्बस्वामिनो ऽवलगकाः - ग्राममहत्तरा वा, मन्त्रिणः - सचिवाः, महामन्त्रिणो- महामात्या मन्त्रिमण्डलप्रधानाः, गणकाः- ज्योतिषिका भाण्डागारिका वा, दोवारिका:- प्रतीहाराः, अमात्या-राज्याधिष्ठायकाः, चेटा:- दासाः, पीठमर्दा-आस्थाने आसन्नासन्नसेवकाः वयस्याः इत्यर्थः वेश्याचार्या वा, नागरा - नगरवासिप्रकृतयो राजदेयविभागाः, निगमा:- कारणिका वणिजो वा, श्रेष्ठिनो-मूर्ध्नि लसल्लक्ष्मीकस्वर्णपट्टाः, सेनापतयश्चतुरङ्गसैन्येशाः, सार्थवाहादूताश्च प्रतीताः, सन्धिपाला - राज्यसन्धिरक्षकाः, एषां इन्द्रस्ततस्तैः 'इह च तृतीयाबहुवचनलोपश्चात्र' सार्द्धं न केवलं तत्सहित एव अपि तु 'सं इति' समन्तात् परिवृत्तः नरपतिर्मज्जनगृहात्प्रतिनिष्क्रामतीति सम्बन्धः । किम्भूतः ? प्रियदर्शनः क इव धवलमहामेघनिर्गत इव शशी तथा ससिव्वन्तियतोऽन्यत्र सम्बन्धाद् ग्रहगणदीप्यमानऋक्ष-तारक- गणानां मध्ये इव वर्तमान: नरपतिर्नराणां पती रक्षिता, नरेन्द्रो - नरेष्वैश्वर्यानुभवनात्, नरवृषभो - राज्यधुराधरणात्, नरसिंहः - शौर्यातिशयात्,
१ सुबोधिकायां 'युवराजा:' इति प्रयोगः
१८