________________
पायपीढाओ इत्यादितो..........निक्खमित्तेत्यन्तम् । तत्र अट्टण-अनशाला-व्यायामशाला,अनेकानि | व्यायामानि व्यायामनिमित्तं यानि योग्यादीनि तानि, तत्र योग्या च गुणनिका,वल्गन-चोल्ललनं, व्याम| ईन-अन्योन्यं बाहाद्यङ्गमोटनं, मल्लयुद्ध प्रतीतं, करणानि-अङ्गभङ्गविशेषास्तैः श्रान्तःसामान्येन, परिश्रान्तोऽङ्गप्रत्यङ्गापेक्षया । सयपागत्ति-शतकृत्वो यत्पक्वमपरापरौषधीरसेन सह, शतेन वा कार्षापणानां यत्पक्वं | तच्छतपाकं एवं सहस्रपाकमपि । सुगन्धवरतैलादिभिरादिशब्दात् घृतकर्पूरजलादिग्रहः किंभूतैः ? || | प्रीणनीयैः-रसरुधिरधातुसमताकारिभिः, दीपनीयैरग्निजननैः,मदनीयैः-कामवर्द्धनैः, बृहणीयैः-मांसोपचय
कारिभिः, दर्पणीयैर्वलकर, सर्वाणीन्द्रियाणि गात्राणि प्रह्लादयन्तीति तैरभ्यङ्गः क्रियते स्म यस्य सोऽभ्य| ङ्गितः सन्, ततस्तैलचर्मणि तैलाभ्यक्तस्य सम्बाधनाकरणाय यचर्मतुलिकोपरि कडनं तत्तैलचर्म तत्र | संबाधितः सन्निति योगः । कैरित्याह-पुरुषैः कथम्भूतैः? निपुणैरुपायकुशलैः, प्रेतिपूर्णानां पाणिपादानां सुकुमालकोमलान्यतिमृदूनि तलानि येषां तैः, अभ्यङ्गनपरिमईनोहलनानांप्रतीतार्थानां करणे ये गुणास्तेषु । निम्तैः सदभ्यस्तैः छेकैः-अवसरः द्विसप्ततिकलाज्ञैर्वा, दक्षैः-अविलम्बितकार्यकारिभिः, प्रष्टैर्वाग्मि-12 भिरग्रगामिभिर्वा, कुशलैः साधुभिः संबाधनाकर्मणि, मेधाविभिरपूर्वज्ञानग्रहणशक्तिनिष्ठः, जितपरिश्रमः, अन्यां सुखहेतुत्वादस्थिसुखा तया एवं शेषाण्यपि पदानि ।सुखा-सुखकारिणी परिकर्मणाशुश्रुषा तया, तस्याश्च बहुविधत्वात् कतमयेत्याह संबाधनया-संवाहनया वा विश्रामणया अपगत परिश्रमः।६१ ।
१ अत्र सुबोधिकायां 'प्रतिपूर्णस्य पाणिपादस्य' इति प्रयोगो लिखितः
१७