________________
व्याख्या-तओ पुणो तरुणेत्यादि............पुंडरीयमित्यन्तम् । तत्र ततः पुनः सा त्रिशला विमानवरपुण्डरीकं पश्यति। 'तरुणसूर त्ति'तरुणसूरमण्डलसमप्रभं, दीप्यमानशोभ, उत्तमकंचण-उत्तमकाश्चनमहामणिसमूहैः प्रवराणां तेअ त्ति-तेकंते-गच्छन्त्याधारभाव मिति तेका यदा त्रायन्ते पतद्गृहमिति त्रेयाः,त्रेका वा श्रेया वा स्तम्भास्तेषामष्टोत्तरसहस्त्रेण दीप्यमानं सत्नभःप्रदीपयति-प्रकाशयति।कणगपयर-कनकमतरेषु-सुवर्णपत्रेषु यहा कनकप्रकरर्लम्बमानाभिः-मुक्ताभिश्च समुजवलं ज्वलदिव्यदाम, ईहामिग-ईहामृगा-वृकाः, व्यालकाः-सर्पा, किन्नराः-व्यन्तरविशेषाः रुरवो-मृगभेदाः, सरला-अष्टापदाः,चमरा-आदव्यगावः, संसक्ताः-श्वापदविशेषा,वनलता-अशोकलताद्याः, पद्मलता:पद्मिन्यः, शेषाः प्रतीताः एषां भक्तिभिः-विच्छित्तिभिश्चित्रं-नानारपं यत्र । गंधव्व गन्धर्वस्यगीतस्योपवाद्यमानस्य-वादित्रस्य च सम्पूर्णो घोषो यत्र तत्तथा, नित्यं-शाश्वतं, सजलो-जलयुक्तो घनोऽविरलः विपुल:-पृथुलो-यो जलधरो-मेघस्तस्य गर्जितशद्वस्तबदनुनादिना-प्रतिरवयुक्तेन एवंविधेन देवदुन्दुभिमहारवेण सकलमपि-जीवलोकं पूरयन्तं-आप्याययन्तं चतुर्दशरज्जुरूपं वालोकं व्याप्नुवन्तं । काल-कालागुरुप्रवरकुंदुरुक्कतुरुष्काः प्रागुक्तो दह्यमानो धूपश्च-दशाङ्गादिर्वासाङ्गानि च-सुरभीकरस्योपायभूततत्तद्रव्याणि तेषामुत्तमेन मघमघायमानेन गन्धेन उडुतेन-इतस्ततो विप्रसृतेनाभिरामं यत्तत्तथा, नित्यालोकं-नित्योद्योतयुक्तं, श्वेतं, श्वेतप्रभ, सुरवराभिरामं ति-सुरवरानभिरमयतीति यदा सुर